पृष्ठम्:चम्पूभारतम्.pdf/११९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११७
तृतीय स्तबक ।

ज्वालेनेव काषायवाससावगुण्ठितवपुष सव्यसाचिशब्दमत्सरेण स्मरवीरेण प्रवासरन्ज़[१]मन्वीक्ष्य पन्नगपाण्ड्ययदुकुमारिकाणा कृते पृथ[२]गीरिता त्रिशरकाण्डीमिव त्रिदण्डी बिभ्राण निजपल्लवकोमलिमनिर्जयशोकादिव शुष्केण पटी[३]रदारूणा पादुकीभूय परेिचश्रमाणपाद[४]युगल त कु[५]हनाभिक्षु सभ्रमेण वन्दमानेषु यदुवृन्देषु मुकुन्दोऽपि सविनयमुपागतश्वेत पूरणा[६]वशिप्टै स्वसोदरीप्रेमरसैरिव तीर्थ[७] जलै पिचण्डिल कण्मडलु तदीयपाणेरादाय ‘भगवन्, इत इत [८]एहि’ इति राजभवनमुपनीय [९]कन्यकान्त पुरे निवेशयामास ।

मार्गे शरत्रयममुष्य कृते विमुच्य
 शेष दूय पुनरिवोज्झितुमात्तलोभ ।


मनसीति भाव । ज्वलता विरहानलज्वालेनेव स्थितेनेत्युत्प्रेक्षा । काषायवास सावगुण्ठितमाच्छादित वपुर्यस्य तथोक्तम् । सव्येन हस्तेनापि साची बाणप्रयो क्तेत्यर्थके शब्दे सज्ञारूपे मत्सरेण द्वेषवता स्मरवीरेण मन्मथवीरेण प्रवासमेव रन्ध्र प्रहर्तुमवकाशमन्वीक्ष्य विचार्य पन्नगकुमारिका उलूपिका, पाण्ड्यकुमार्रिका चित्राङ्गदा, यदुकुमारिका सुभद्रा, तासा कृते । तदथमित्यत्प । पृथक्प्रत्येक मीरिता प्रयुक्ता त्रयाणा शरा काण्डा दण्डा इव तेषा समाहार त्रिशरका ण्डीमिव स्थिता त्रिदण्डी वैणवीम् । पूर्ववत्समास । ‘द्विगोश्च' इति डीप् । बिभ्राण दधत निजपलवस्य कोमलिनो मार्दवस्य निर्जयेन य शोकस्तस्मादिवेत्यु त्प्रेक्षा । शुष्केण निर्द्रवेण पीरदारुणा चन्दनकाष्ठेन पादुकीभूय पादुके भूत्वा परिचर्यमाण शुश्रूषमाण पादयोर्युगल यस्य तथोक्त त कुहनाभिश्च मायासन्या सिनमर्जुन यदुवृन्देषु यादवसथेषु सभ्रमेण वन्दमानेषु नमस्कुर्वत्सु सत्सु मुकुन्द श्रीकृष्णोऽपि सविनय यथातथोपागत सन् । चेतसि पूरणादवशिष्टै स्वसोदर्या सुभद्राया प्रेमरसैरिव स्थितै तीर्थजलै पिचण्डिल पूर्ण कमण्डलु तदीयादर्जु- नसबन्बिन पाणेरादाय स्वय गृहीत्वा हे भगवन् , इत इत एहीति । वदन्निति शेष । राजभवनमुपनीय प्रापग्य कन्यकान्त पुरे निवेशयामास । उपमाया उत्प्रेक्षाचतुष्टयस्य च सजातीयविजातीययो ससृष्टि ॥

 मार्ग इति । तदनु कन्यान्त पुरप्रवेशनानन्तर स्मरो मन्मथो मार्गे तीर्थ यात्रामार्गेऽमुष्य कृतेऽर्जुनार्थ शरत्रयम् । बाणपञ्चक्रमध्य इति शेष । विमुच्य प्रयुज्य । उलूपिकाचित्राङ्गदासुभद्राखनुरागजननायेति भाव । शेष दूय बाणयुग


  1. अविष्य’ इति पाठ
  2. पृथक्पृथक्’ इति पाठ
  3. ‘तरुण इति पाठ
  4. युग’ इति पाठ
  5. ‘भावनाभिज्ञम्’ इति पाठ
  6. ‘अवशेष ” इति पाठ
  7. ‘जनै पूरित’ इति पाठ
  8. ‘एहि’ इति नास्ति कचित्
  9. ‘कन्या त पुरे इति पाठ