पृष्ठम्:चम्पूभारतम्.pdf/१२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११८
चम्पूभारते


 शुश्रूषित तदनु सोदरचोदिताया-
  स्तन्व्या स्मरो नयनमेव शर व्यतानीत्[१] ॥ ६४ ॥
वपुषा मधुरेण सुभ्रुवो बनुषा चित्त[२] भुवश्च तार्जित ।
तपसेव दिने दिने तनोस्तनिमान जगृहे स मस्करी ॥ ६५ ॥
 प्रतिनिश्वसिते दीर्घे पाणिना नासिका स्पृशन् ।
 भावयामास पार्थोऽय प्राणायामसमापनम् ॥ ६६ ॥
प्रणवोच्चरणे पुर प्रस[३]र्पन्प्रबभासे यतिनस्तदा[४]बरोष्ट ।
मुहुरग्रतावनीन्द्रपुत्रीमुखमास्वादयितु किलोज्जि[५]हान ॥ ६७ ॥


पुनरुज्झितु प्रयोक्तुमात्तो लोभो येन तथोक्त इवेत्युत्प्रेक्षा । शुश्रूषितुमर्जुनयते परिचर्या कर्तु सोदराभ्या रामकृष्णाभ्या चोदिताया प्रेरितायास्तस्या सुभद्राया नयन चक्षुरेव शरं व्यतानीद्वाण चकार । तत्कटाक्षैरिक्षुचपरूक्षा क्षणे क्षणे सधुक्षिताभूदित्यर्थ । उत्प्रेक्षारूपकयोरङ्गाङ्गिभावेन सकर । वसन्ततिलका ॥६४॥

 वपुषेति । स मस्करी कपटसन्यासी मधुरेण कोमलेन मधुवता च सुश्रुव सुभद्रया वपुषा चित्तभुव मन्मथस्य वनुषा पौष्पेण तजित । सतापित सनि त्यर्थ । तपसेवेत्युत्प्रेक्षा । कपटसन्यासिनो वस्तुत तप प्रसत्त्यभावादिति भाव । तनो शरीरस्य तनिमान कार्श्य जगृहे गृहीतमान् । कृशोऽभूदित्यर्थ । एतेन पश्चमी कृशता नाम मन्मथावस्थोक्ता । ‘ततो घनाविर्भवनात्’ इत्यत्र मन सङ्ग , ‘वियत्यशेषासु’ इत्यन्न दृक्सङ्ग , ‘मन्मथे ज्वलति’ इत्यत्र सकल्प , ‘विजयो मधुरस्मितस्य’ इत्यत्र हीत्यागश्च द्रष्टव्य । वृत्त वैतालीयम् ॥ ६५ ॥

 प्रतीति । अथ पार्थो दीर्घे प्रतिनिश्वसिते निश्वासे पाणिना नासिका स्पृश- न्सन्प्राणायामस्य वायुधारणात्मकस्य तपस समापनम् । समाप्तिबुद्धिमित्यर्थ । भावयामास जनयामास । पश्यतो जनस्येति शेष । अन्यथा तै स्वविकारस्य तक्र्यत्वापत्तेरिति भाव । अत्र नासिकास्पर्शनक्रियया प्राणायामसमाप्तिर्मया कृतेति भ्रान्त्युत्पादनेन मदनसतापजनितनिश्वसितरूपमर्माप्रकाशनाय परवश्च नस्य कृतत्वाद्युक्तिरलकार । ‘युक्ति परातिसधान क्रियया ममगुप्तये’ इति लक्षणात् ॥ ६६ ॥

 प्रणवेति । तदा कपटयतिवसमये प्रणवस्योकारस्योच्चरणे पठने पुर पुरस्ता त्प्रसर्पन्प्रसरन् । यतिन कपटसन्यासिनोऽधर ओष्ठ । अग्रगताया अचनीन्द्र पुत्र्या सुभद्राया मुखम् । अधरमित्यर्थ । आखादयितु मुहुरुज्जिहान उत्थाय गच्छन्। किलेति सभावनायाम् । उत्पूर्वाज्जहातेस्ताच्छील्ये शानचि 'क्ष्लौ' इति द्वित्वे


  1. ‘सुनुवा’ इति पाठ
  2. ‘चित्तभुवा’ इति पाठ
  3. ‘प्रसर्पवु’ इति पाठ
  4. ‘अधरोष्ठम्’ इति पाठ
  5. ‘उज्जिहानम्' इति पाठ