५० राकागमसहिते चन्द्रालोके- -- अलङ्कारान्विवक्षुबंशोऽलङ्कारव्यापित्वात्प्रथममुपमालङ्कारमाह- उपमा यत्र सादृश्यलक्ष्मीरुल्लसति द्वयोः । हृदये खेळतोरुच्चस्तन्वङ्गीस्तनयोरिव ॥ ११ ॥ पूर्ण लुप्त द्विधाऽऽद्या तु शाब्दं यत्र चतुष्टयम् । अपमान चोपमेयं सादृश्यं धर्म एव च ॥ द्वितीयैकद्वित्रिलोपे, उभय्यपि पुनद्विधा । औल्यार्थीति, तयोराद्या यस्यां सादृश्यवाचकम् ॥ यथैवेत्यादिकं, स स्यादन्त्या सदृशवाचिनी ।। अत्रोपपत्तिविज्ञेया सादृश्यस्य प्रकारता ॥ शीघ्र प्रतीयते औत्यां द्वितीयायां विलम्बतः ।। समासे तद्धिते वाक्ये द्विधा पूर्णेति षडुविधा ॥ इवेन च समासे तु चत्यादौ तद्धिते तथा ।। एकोनविंशधा(१) लुप्तोपमा धर्मादिलोपतः ॥ समासगी वाक्यगा च श्रोत्यार्थीति चतुष्टयम् । थिका तद्धिते चेति धर्मलोपेन पञ्चधा ॥ सादृश्यवाचिलोपे तु सा पोढाऽथ समासगा। विहितेन क्यचा तद्वत्कृत्रुत्तरपदात्या ॥ कर्मकत्रश्च विहितणमुला चेति भेदतः । माथ्यवं चोपमानस्य लोपे वाक्यसमासगा । धर्मोपमवाचिलोपे झिगा चाऽथ समासगी । धर्मोपमानयोपे वृत्तौ वाक्ये च सा मता ॥ उपमेयोपमालोपे क्यचि सैकभिदा मता । त्रिलोपेऽपि समासे सा पञ्चविंशतिधोपमा ॥ उपमेति । यत्र काव्ये द्वयोर्मिन्नयोः सादृश्यलक्ष्मीश्चमत्कारजनके साहश्यमुल्ल सति वाच्यं भवति स स्वाश्रयबोधकतासम्बन्धेन काव्यनिष्ठ उपमालङ्कारः। उदाहरण. मप्युक्तम् । अत्र द्वयोरित्युपमेयं, तन्वङ्गीस्तनयोरित्युपमान, हृदये खेलनं साधारणधर्मः, इवेति सादृश्यवाचकमित्युपमा । अन्न द्वयोरिति ‘सागरः सागरोपमः इत्यायनन्वय व्यावृत्तये । उल्लसतीति अलङ्कारध्वनिव्योवृत्तये । 'लक्ष्मीरिति चमत्कारानाधायक- वस्तुत्वप्रमेयत्वादिना सादृश्यव्यावृत्तये । तेनान्यनिरूपितमन्यनिष्ठं चमत्कारांधायके वाच्यं सादृश्यमुपमालङ्कार इत्यर्थः फलितः । न चाथ्र्युपमायां सदृशस्थ वाच्यतया साह. यस्याऽवाच्यत्वेनाव्याप्तिरिति वाच्यम् , शक्यतावच्छेदकसादृश्येऽपि शकिसत्वेन तस्यापि वाच्यत्वात्। केचित्तु-"न सादृश्यमुपमा, किन्तु अपमानतोपमा चको । सा छ,
पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/९९
दिखावट