पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चमो मयूखः । एष सर्वतोभद्रबन्धोऽत्रपङकि चतुष्टयेन लेख्यः । अनुलोमप्रतिलोमक्रमेण चोपर्यंधो. वर्णक्रमेण च पाठः ।। भासते प्रतिभासार ! रसाभाता हताऽविभा । भावितात्मा शुभा वादे देवाभा बत ! ते सभा(१) ॥ अयं काव्यप्रकाशोकोऽष्टदलपद्मबन्धः । अत्राष्टदिग्वितताष्टदलं लेख्यम् । तत्र कर्णिकामध्ये 'भाकारः । पूर्वादिदलेषु निर्गमप्रवेशरीत्या द्वौ द्वौ वर्षों लेख्यौ । तत्र प्राचि दले आदौ निर्गमः, श्लोकान्ते प्रवेशश्च । दक्षिणोत्तरयोर्दलयोनिर्गत्यैव प्रवेशः । पश्चिमदले तु प्रविश्यैव निर्गमः । आग्नेयवायव्यदलयोः प्रवेश एव । नैर्ऋत्येशानयोस्तु निगम एवेति । सरला बहुलारम्भतरलाऽलिबलाऽऽरवा । वारलाबहुलाऽमन्दकरला बहुलाऽमला(२) ॥ अयं सुरजबन्धः । अत्र सुरजषकोत्पत्तिः । एवमन्येऽपि सुधीभिरूह्याः । अन्ये च प्रतिलोम्याक्षरै काक्षरद्वयक्षराः तालव्याक्षरगूढचतुर्थाः ध्युताक्षरताक्षरान्तलीपिका- बहिलपिकाक्रियाकारकगुप्तादयोऽपि चित्रप्रकारा ग्रन्थगौरवभयान्नोकाः । दर्पणस्तु- रसस्य परिपन्थित्वान्नालङ्कारः प्रहेलिका । उक्तिवैचित्र्यमानं सा च्युतदताक्षरादिका । इत्याह ॥ १-१• ॥ बभस्ति शोभत इति निस्वभव्ययभस्वा तस्मिन्नित्यर्थः । एताइग्विशेषणविशिष्टे महा- समरे युष्माभिरत्युन्नतमात्मनः पौरुषं परित्यक्तमित्युत्तरेण सम्बन्धः । (१) राजानं कञ्चिदुद्दिश्य तत्सम प्रशंसतः कस्याप्युकिरियम् । हे प्रतिभा सार ! विकसन्ती बुद्धिः प्रतिमा तद्विषये श्रेष्ठ ! बुद्धिमत्तम ! राजन्नित्यर्थः, रौः ...आसमन्तात् भाता शोभिता रससम्पत्तिसम्पूर्णा, हती दूरीभूता अविभा द.त्यभावो यस्याः सा हताऽविभा, भावितात्मा-भावित आलोचितः आत्मा परमात्मा यस्याम् आत्मा स्वरूपं वा यस्याः, यत्र परमात्मविचारो भवति यत्स्वरूपं वाऽऽलोचयन्ति परे, तो शीति यावत् , वादे वस्तुविचारे शुभा श्रेष्ठा, देवाभा देवसदृशी दिव्या ते सभा परिषत् भासते शोभते । वतेत्याश्चर्ये । विलक्षणगुणा त्वत्सभेयं विलसतीति भावः । | (२) शरदो वर्णनमिदम् । सरल ऋजुः मेवादिकौटिल्यविरहिता, बहुलः प्रचुर आरम्भ सयोगः पुष्परसपामरूप येषां तादृशा अत एव तरलाश्चञ्चला इतस्ततो मक- रदलोभाद् अमन्तो येऽलयो भ्रमरास्तेषां बलानि सैन्यानि तेषाम् आरवा गुञ्जितानि यल्मिस्ताडगो, वारला बहुला-वरला एवं वारला हंस्यस्ताभिर्बहुला तट्याप्तेति यावत्,. अमन्दा बहवः करला राजग्राह्यभागमाहिणो यस्य सा, बहुलाऽमला अतिप्रसन्नेत्यर्थः ।,