पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/१००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चमो मयूखः ।। | ५१ चन्द्र इव मुखं, यथा चन्द्रस्तथा सुख, चन्द्रो मुखं च तुल्यं, चन्द्रवन्मुखःमित्यादो(१) चन्द्रनिष्ठसादृश्यप्रतियोगित्वमुपमा । न च प्रतियोगित्वस्य संसर्गतया न शाब्दत्वम् । उपमायास्तु इवादिपदार्थतया शाब्दस्य सादृश्यस्यैवोपमात्वमुचितमिति वाच्यम् । अव्ययानामन्विताभिधायित्वेन प्रतियोगित्वविशिष्टसादृश्यस्येवादिवाच्यत्वात् । एवं •वटो नेत्यत्रापि प्रतियोगित्वविशिष्टाभावो ननादिवाच्यः । अन्यथा चन्द्रघट- पदार्थयोरिवादिपदार्थे प्रतियोगितासम्बन्धेन प्रकारतानुपपत्तेः । नामार्थयोर्मेदान्वयल्या व्युत्पत्तेः । निपाताव्ययातिरिकत्वविवक्षायां मानाभावात् । किञ्च सादृश्यमात्र. स्येवादिवाच्यत्वे 'चन्द्रस्य सदृश' इत्यत्रेव चन्द्रस्येव घटस्य नेत्यपि प्रयोगापत्तिः । अतः प्रतियोगित्वविशिष्टसादृश्यमेवेवादिवाच्यम् । तदेव चोपमा । अत एव-इवादौ तस्याः शाब्दत्वम्, सादृश्यवाचके तुल्यादिपदे तस्या अर्थत्वमित्याहुः। तत्तुच्छम् । एवमपि प्रतियोगित्वविशिष्टसादृश्ये इतरपदार्थस्यान्वयासम्भवादेकदेशान्वयस्या- ऽव्युत्पत्तैः । अत्रेदमवधेयम् । उपमा द्विधा, शुद्धा दुष्टा च । द्वितीया दोषमयूखेऽभिहिता । शुद्धा द्विधा, पूर्णा लुप्ता च । उपमानोपमेयसाधारणधमपमावाचकपदसमभिव्याहारे आया । एतेषामेकस्य इयोस्त्रयाणां वाऽनुपादाने लुप्ता । आद्या यथा- सं तनौ सन्निहितं वरन्तै सुनेर्मनोवृत्तिरिव स्विकायाम् । ग्रहीतुकामा दरिणी शयेन यत्नाइसौ निश्चलता जगाहे ॥ अन्न दमयन्त्युपमेयर, मनोवृत्तिरुपमान, हंसग्रहणेच्छा साधारणो धर्मः, उपमा- वाच$ चेवादिपदम् , तेषां समभिव्याहारस्य सत्त्वात् । शुद्धा चेयं शाब्दी आर्थी चेति द्विधा । तथा हि-इवयथादिशब्दानां साहश्यमान्नवाचित्वं निर्विवादम् । तुल्य. समसदृशादिपदानां तु न साहश्यमान्नवाचित्वम् । किन्तु 'कमलेन तुल्यं मुखामि- त्यादितृतीयान्तोपमानवाचकपदसमभिव्याहारे ‘कमलनिरूपिताश्यवभिन्नं सुख- मिति बोधः । 'मुखस्य तुल्यं कमलमित्यादौ षष्ठयन्तोपमेयवाचकपदसमभिव्याहारे

  • मुखमिष्टसादृश्यनिरूपकाभिन्न कमलमिति बोधः । “कमलं मुखं च तुल्यमित्यादौ

प्रथमान्तोभयवाचकपदसमभिव्याहारे उभयविशेष्यकबोधश्चानुभाविकः । अतस्तेषां सुदृश्यविशिष्टवाचित्वम् । तत्र इतरविशेषणतया तत्प्रतिपत्तिः । चतेस्तु तत्र तस्ये. धति सूत्रेणेवार्थे विहितस्य विशेष्यीभूतसादृश्यमान्नवाचिता । तेन तुल्य क्रिया चेहू वतिरिति सूत्रेण तुल्यार्थे विहितस्य तुल्यादिपदवत् सादृश्यस्य विशिष्टवाचित्वमित्यु- भयार्थत्वम् । एवं च-इतराविशेषणीभूतसादृश्यमात्रप्रतिपादने शादी, इतरविशेषणी- भूतसादृश्यप्रतिपादकशब्दसमभिव्याहारे, अर्थात्साहवयस्य विशेष्यताप्रतिपत्तैराथ. ति सम्प्रदायः । अन्ये सु-चन्द्रेण तुल्यं मुखमाह्लादक-मित्यत्राह्लादकत्वस्य न (१) इत उत्तर "वाक्येभ्यो यद्यपि चन्द्रप्रतियोगिसादृश्याश्रयो सुखमिति बाक्यार्थबोधस्तथापि इत्यधिकः पाठः क पुस्तके ।