पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रास्ताविकं किञ्चित्

इतः पूर्वं प्रकाशिते स्वगुणैः प्रकाशमाने त्रिविधेऽपि चन्द्रालोके क्कचिदेकत्र कारिकायां गड्डलिकाप्रवाहेण सङ्गतमसङ्गतं च्युत ‘स्कारं पाठमेकमुपलभ्य मक्षिकास्थाने मक्षिकापातं कुर्वतां चक्षुष्मतामपि सम्पादकमहाशयानां तेषां तत्तादृशमविदूष्यं वैदुष्य- मुद्दिश्य को नाम विस्मयं नादधीत चित्ते । दृश्यतां च तदिदं द्वादश्यां कारिकायां पञ्चमे मयूखे । अत्र किल पूर्वार्धे ‘उपमानोपमेयत्वे यत्रैकस्यैव जाग्रतः' इत्येष एव सर्वत्रोपलभ्यते पाठः । 'जाग्रत' इत्येवं पण्डितवरो जयदेवः प्रयुञ्जीतेत्येवं तु केन कथं वा सम्भावनीयम् । सम्भाव्यते, मूलग्रन्थलेखकमहोदयप्रमादात्सोऽयमपपाठस्तत्र लब्धावकाशः स्यात् । मुद्रणावसरे च तत्रावधानं नादायि सम्पादकैः । एकेन कृतमन्येनाप्यनुसृतमित्येवं तदेवाद्यापि दृश्यते सर्वत्रानुस्यूतम् । चित्रं तु महदेतद्वर्तते,यदेतद्याख्यायामपि तदेव पदं पुनराम्रडितं दृश्यते । अस्माभिस्तु तत्र ‘जाग्रत? इत्यत्र स्थाने ‘जागृत' इत्येवं पाठः सन्निवेशितः ।।

 अस्य च पुरो वर्तमानस्य चन्द्रालेाकसंस्करणस्य विषयानुक्रमणिकायाः सङ्कलनं मनसिकृत्य पूर्वप्रकाशितैतत्संस्करणेषु ‘किन्नाम कीदृशं वैतदन्यैराचरित'मित्येवमन्तर्दिंदृक्षोदयात्तत्राक्षिपातः कृतः । दर्शनानन्तरमेव च यस्य कस्यापि वैशिष्टयमवगन्तुं शक्यम् ।अत्र तावत् सर्वप्रथमसंस्करणं कमपि विशेषमुल्लेखनीयं नोपातिष्टिपत् ,किन्तु तदनन्तरप्रकाशितैतत्संस्करणद्वय्यापि विषयसूच्यां तत्र तत्र वैचित्र्यं किञ्चिदुपदर्श्य दर्शकानां मनसि महान् सङ्करः समुपस्थापितः । अद्वितीयदर्शनाः पूर्वमेके ग्रन्थोक्तं नाम कुत्रचिन्नामान्तरेण सङ्केतयन्तो यथेच्छमन्तरान्तरा किञ्चित्किञ्चिदुत्सृज्य किमपि लेखनीयमन्यदेवान्यत्र लिखन्तः समन्ततो दर्शयन्ति स्वीयमद्वितीयं तत्कार्यसम्पादनकौशलम् । इतरे च तदनुयायिनस्तदीयमेव गृह्णन्ति । न हि तावत्तत्र किञ्चिद्वक्तुमिष्यतेऽस्माभिः। व्याख्यायां च कुत्रापि स्थाने किमप्येकमालिख्य विषयसूच्यां तदेव नामान्तरेण दर्शयन्तो नूनं ते दर्शनीयवैदुष्याः । कुत्रापि किञ्चिल्लिखितमस्माक- मेवेषत्परिवर्तनपूर्वमनुकृतवतां तेषां तदिदं कार्यमभिनन्दनीयमेव । तदेतत्सकल.माकलय्य ‘श्रहह महताम्' इत्यर्धमेवोक्त्वा तूष्णीं भूयते । प्रसङ्गवशात्तदिदं यथालोचितमत्रोपदर्शितम् । दर्शनसञ्जातसहजभावप्रवाहेणैव तत्प्रकाशपदवीं नीता वयम् । नात्र किञ्चिद्भावान्तरमुन्नीय तैर्विमनायितव्यम् । एतेन खलु साङ्कर्येण दर्शकास्तावदतिविचित्रं दशान्तरमनुभविष्यन्तीति तैः सावधानं कुतोऽपि कि त्समीक्ष्यैव किञ्चिदुपादेयमित्येवमेवास्मिन्निवेदनमस्माकम् ।

 अस्तु तावत् , प्रकृतमनुसरामः । दिनानि सुबहूनि वीतानि, कदापि केनापि कारणेन श्रीमतां श्रौतस्मार्तनिगमागमप्रपञ्चचुञ्चूनां परमोदारसरसस्वभावसम्भूतप्रभूतयशसां यशःशेषतां नीतानामकाल एव सहसा कालेन श्रीबाबूदीक्षितजडेमहोदयानां गृहं गतैरस्माभिः प्रसङ्गविशेषमनुसृत्य तैः प्रदर्शितं स्वीयकमनीयप्रशस्तपुस्तकालयीयपुस्तकानां सूचीपत्रमवलोक्य तत्रैकस्याकर्णितपूर्वस्यापूर्वस्य काशीस्थमहाराष्ट्रजातीय- भट्टभट्टवंशावतंसश्रीगागाभट्टसङ्ख्यावत्प्रणीतस्यैतस्य चन्द्रालाकव्याख्यानरूपस्य