पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रास्ताविकं किञ्चित्

राकागमस्य रमणीयं नामधेयमुपलभ्य तद्विलोकनसञ्जातसहजकौतूहलैस्तदोयाधि- कारिमहोदयानुग्रहातिरेकेण तदानीं तन्निभालनसौभाग्यमन्वभूयत । कालान्तरे च तेपामत्युदारचेतसामधिगत्यानुमतिं निमप्यापि तदीयां प्रतिलिपि परितस्तत्प्रचार- चिकीर्पयाऽतिचिराय तन्मुद्रणेपाय पर्यालोचनयैव तस्थे । अत्रैव चान्तरे कदापि वार्ता प्रसङ्गेन प्राचीनार्वाचीनदुष्प्रापतमोपादेयग्रन्थरत्नप्रकाशनोद्धारबद्धादरैः श्रीमविद्या विलासमुद्रणालयस्वामिभिः श्रेष्टिवरश्रीजयकृष्णदासगुप्तमहोदयैः समुपलभ्यैतां तत्पुस्तकसम्बन्धिनी प्रवृत्तिं तत्प्रकाशनोत्साहः स्वकीयः प्रदर्शि । यथासमयं प्रवृत्ते च तन्मुद्रणे सुमहतः सौभाग्योदयादित्थमेत मनोरथस्य फलवत्तां नयनगोचरीकृत्य सोत्साहं ततः प्रवर्तितं तत्सम्पादनकार्यम् । अद्य तावत् परमकारुणिकश्रीमत्परमेश्वर- करुणापाङ्गभङ्गीभिरभिभूय भूयोऽन्तरायजातमन्तरान्तरापतितं तदिदमुपक्रान्तं पूर्णता प्रापय्य कार्यं समुत्तीर्णमहार्णव इव परतरप्रमोदस्य परां काष्टां प्राप्ताः स्मो वयम् ।।

 यदुपजीव्यैतन्मुद्रण प्रवृत्तं, तदेतत्पुस्तकं कपुस्तकत्वेन सङ्केतितं विशिष्टतमा- ऽशुद्धीनां निकेतनं दृष्ट्वा परितः समारब्धे शुद्धतमैतत्पुस्तकान्तरानुसन्धानव्यतिकरे, श्रीमद्गागाभट्टसन्तानसन्तान भूतानां भट्टभट्टकुलकमलदिवाकर श्रीवीरेश्वरभट्ट महोदयानामेव केवलं गृहेषु तस्योपलब्धिजता । ततोऽत्र सम्प्राप्तमशुद्धीनां निराकरणे सुमहत्साहाय्यम् । किन्तु ततोऽपि ताः समस्त्यान्निर्गन्तुं नैहन्त। खपुस्तकत्वेन गृहीत- मेतत्पुस्तकमशुद्धीनामनास्पदं यद्यपि नासीत्तथापि प्रायः शुद्धमेवासीत् कपुस्तकात् । अस्मदभ्यर्थनानुसारमशुद्धिबहुलपाठसंशोधनाय तदिदमौदार्येण समर्पयतां तदधिका- रिणां तेषामुपकारजातमेतत्प्रशंसनीयं नूनमविस्मरणीयमेव । अत्र च पुस्तकद्वयपाठ- सम्मेलनसाहाय्यमाचरतां केषाञ्चित्सहृदयसौहार्दशालिनां तेषां सहजस्नेहविशेषोऽप्यय- मभिनन्दनीय एव ।

 इत्थमिदं पुस्तकद्वयमालम्ब्य विधीयमाने मुद्रणकार्ये मध्ये च पुनः समुपस्थिते तत्तदुपलब्धाऽपपाठसंशोधन प्रस्तावे, श्रीमदनवद्यहृद्यतमसाहित्यविद्याविलासैकनिकेतन- कमनीयसरसगुणालङ्कारसारोदयविद्योतमनगद्यपद्यमयमधुरसारसूक्तिसुधारसप्रवाहसरणि सम्भेदभूमिहोदयाभूमिभूषणायमानमानोन्नतश्रीमत्पूजनीय गुरुवरचरणानुग्रहाद्वहुषु दूरी- क्रियमाणेषु सन्देहपदेषु दीयमाने च सस्नेहमुदारैः सहृदय सूरिवरैस्तत्तदपपाठशोधनौ- पत्रिकविचारोचितसाहाय्ये, स्वयमपि तत्तद्गन्थविशेषपयलोचनेन तत्र तत्रोचितविचार- पुरःसरं पुस्तकाक्षरसमुदायानुकूलपाठकल्पनया च कार्यविशेषव्यतिकरोऽयं परिश्रमा- तिरेकात्कथञ्चित्पूरयाञ्चक्रे । अन्ते च गत्यन्तराभावाद क्रियन्ताऽस्माभिः प्रश्नचिहृरङ्कि: तानि विचारावशिष्टानि विशिष्टानि तानि तानि स्थलानि ।।

 मुद्रणोत्तरं च तत्तद्विचारणीयविषयानुद्दिश्य किञ्चिद्विचारणीयं पुनरपी'त्येवमन्त- विचारेण समुचितविचारसाहायकसमवाप्तिसम्भावनयाऽस्माभिरभ्यर्थितास्तदर्थ केचि- दुच्चावचप्रौढपाण्डित्यलीलाविलासालयाः सहृदयास्तदिदमङ्गीकृत्यापि सहजसौजन्य-