तृतीयो मयूखः । सिद्धिः ख्यातेषु चेन्नाम कीयेते तुल्यतोक्तये । युवामेवेह विख्यातौ त्वं बलैर्जलाधजलैः ॥ ८ ॥ सिद्धिरिति । तुल्यतासिद्धयर्थं प्रसिद्धसाहचर्येण कथनं सिद्धिरित्यर्थः । यथा वा- दुदोह ग स यज्ञाय सस्याय मघवा दिवम् । सम्पद्विनिमयेनोभौ दधतुर्भुवनद्वयम् ॥ अयमपि 'गुणौत्कृटैः समीकृत्य वचोऽन्या तुल्ययोगिते’ति तुल्ययोगितालङ्कारा न्तर्गत इति कश्चित् ॥ ८ ॥ युक्ति विशेषसिद्धिश्चेद्विचित्रार्थान्तरान्वयात् ।। नवस्त्वं नीरदः कोऽपि स्वर्णेचे पॅसि यन्मुहुः ॥ ९ ॥ युक्तिरिति । विचित्रकर्मथनेनोपमानापेक्षयोपमेये चमत्कारधायकविशेषसिद्धि. थुक्तिरित्यर्थः । नव इति । जलदान्तदृष्टसवर्णवृष्टया वर्णनोये नीरदापेक्षया विशेष सिद्धेः । यथा वा- एषा रतिः स्फुरति चेतसि कस्य यस्याः सूते रतिं द्युतिरथ त्वयि वा तनोति । वैयक्षवीक्षणखिलीकृतनिर्जरत्व | सिद्धायुरध्वमकरध्वजसंशयं कः ॥ अर्थ व्यतिरेकालङ्कारभेद इति कश्चित् ॥ ९ ॥ कार्यं फलोपळम्भवेद् व्यापाराद्वस्तुनोऽथ वा ।। असावुदेति शीतांशुमनच्छेदाय सुनुवाम् ॥ १० ॥ कार्यमिति । व्यापाराद्वस्तुनो वा यन्न कार्यकथनं तत्र्यम् । असाविति ।
- चन्द्रस्य स्वतः उदयव्यापारेण च मानच्छेदफळजनकत्वं प्रसिद्धम् । नायके तत्फळवर्ण-
नम् । अयं परिणामालङ्कारान्तर्गत इति कश्चित् ॥ १० ॥ इत्यादि लक्षणं भुरि काव्यस्याहुमहर्षयः । स्वर्गभ्राजिष्णुभालत्वप्रभृतीन महीभुजैः ॥ ११ ॥ इत्यादीति । लक्षणं काव्यत्वज्ञापकम् । तेनैतादृशोकौ काव्यत्वं ज्ञेयम् । शुको वृक्षस्तिष्ठत्य अद्रावन्न प्रज्वलत्यग्निरुच्दै इत्यादिषु न काव्यत्वम् । आदिना भड्यन्तरेणाप्युक्तिषु काव्यत्वाक्षतिः । इतो भियाभूपतिभिर्वनं वनादग्निरुच्चैस्टवीत्वमीयुषी । निजापि साऽवापि चिरात्पुनः पुरी पुनः स्वमध्यासि विलासमन्दिरम् ॥