पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

राकागमसहिते चन्द्रालोके- प्रतिषेधः प्रसिद्धानां कारणानामनादरः ।। न युद्धेन ध्रुवोः रुपन्देनैव वीर निवारिताः ॥ ५ ॥ प्रतिषेध इति । प्रसिद्धकारणाऽनादरेणाप्रसिद्धकारणादरः प्रतिषेध इत्यर्थः । युद्धस्य प्रसिद्धं कारणत्वं भूस्पन्दस्य त्वप्रसिद्धम् । अयं हेत्वपन्हुत्यन्तर्गतः ॥ ६ ॥ निरुक्त स्यानिर्वचनं नाम्नः सत्यं तथाऽनृतम् । ईदृशैश्चरितै राजन् ! सत्यं दोषाकरो भवान् ॥ ६ ॥ निरुक्तमिति । नाम्नो निर्वचनमवयवार्थकथनद्वारा तदुत्पत्तिदर्श नं निरुकम् । तद् द्विधा-व्याकरणसाध्यं सत्यं प्रसिद्धावयवार्थकं वा, तदसाध्यै मिथ्या स्वकल्पिता वयवार्थर्क वा । ईशैरिति । अत्र ‘दोषाणामाकरः इति व्याकरणलाध्यत्वात्सल्यम् । रञ्जनाद्राजेति व्युत्पत्ति मनसि निधाय राजन्निति तदसाध्यत्वान्मियो । 'राज दीघाविति धातो राजपदस्य निष्पतेः ।। यसव स्तवविधौ विधिरायैश्चातुरी धरति तच्चतरास्यः ।। त्वय्यशेषविदि जाग्रति शर्वः सर्वविदूब्रुवतया शितिकण्ठः ॥ यथा वा- हरि परित्यज्य नलाभिलाषुका न लज्जले वा विदुषिझुवा कथम् । उपेक्षितेक्षोः करभाच्छमीरतादुरुं वदे त्व करभो ! भोरिति ॥ इदं सत्यम् । यस्माञ्चण्डं च मुण्डं च गृहीत्वा त्वमुपागता । चामुण्डेति ततो लोके ख्याता देवि ! भविष्यसि ।। इति मिथ्या । यथा प्रह्लादनाचन्द्रः प्रतापाचपनो यथा । तथैव सोऽभूदन्वर्थों राजा प्रकृतिरञ्जनात् ॥ इति च ॥ ६ ॥ स्यान्मिथ्याध्यवसायश्चैदसती साध्यसाधने । चन्द्रशुसूत्रग्रथित नभःपुष्पस्रज वह ॥ ७ ॥ स्यादिति । साध्यसाधनयोमिथ्याभूतयोः कथन मिथ्याध्यवसायः । चन्द्रकिरण- सूत्रग्रथनं कारणमाकाशपुष्पमाला कार्यम् , उभयोरण्यसत्यवादित्यर्थः । तथा च- स्वर्भानुप्रतिवारपारणमिलद्दन्तौवयन्त्रोद्भवः श्वभ्रालीपतयालुदीधितिसुधासारस्तुषारयुतिः । पुष्पेष्वासनतत्प्रियापरिणयानन्दाभिषेकोत्सचे देवः प्राप्तसहस्रधारकलाश्रीरस्तु नस्तुष्टये ॥॥ ७ ॥