तृतीयो मयूखः । काव्यलक्षणोद्देशक्रमेण लक्षणान्याह- अल्पाक्षरा विचित्रार्थख्यातिरक्षरसंहतिः । उषाकान्तेनाऽनुगतः शूरः शरिरयं पुनः ॥ १ ॥ अल्पाक्षरेति । बह्वर्थप्रत्यायकोल्पाक्षरवत्वमक्षरसंहतित्वम् । उदाहरणम्- उषाकान्तेनेति । अनिरुद्धेनेत्यर्थः । उषाकान्तपदं बाणपुरवृत्तपौरुषस्मारकम् । अपायि मुनिना पुरा पुनरमाय मर्यादया। त्यतारि कपिना पुरा पुनरशोषि कल्पाद्मिना । अमन्थि मुरवैरिणा पुनरबन्धि लङ्कारिणी क्व नाथ ! वसुधापते ! तव यशोऽम्बुधिः क्वाम्बुधिः ॥ अन्न वैस्तैः पदैननापुराणस्थकथानां स्मरणम् । अयं समासोक्तिभेद इति कश्चित् ॥१॥ शोभा ख्यातोऽपि यद्दोष गुणकीय निषिध्यते । मृषा निन्दन्ति संसार कंसारियंत्र पूज्यते ॥२॥ शोभेति । गुणकथनेन दोषतिरस्कारः शोभेत्यर्थः । यथा वा-- श्यामान खलु गोकुलेषु वसतिः सख्ये गवामर्भकैः । किञ्च ग्राम्यजनैः समं व्यवहृतिः श्लिष्टा तथाऽश्लीलीः ।। आसां यद्यपि दुग्धगन्धि वसनं रूपं विद्रग्धेतर (१) वैदग्ध्यं न, तथाप्यमूः स्मरचमूप्राया हरिप्रेमतः ॥ अभिमानो विचारधेदुहितार्थनिषेधकृत् ।। इन्दुर्यदि कथं तीव्रः सूर्यो यदि कथं निशि ॥ ३ ॥ अभिमान इति । कल्पितार्थप्रतिषेधकयुक्त्युपन्यासोऽभिमान इत्यर्थः । यथा वा- न मन्मथस्त्वं स हि नास्तिमूतिर्न वाश्विनेयः स हि नाऽद्वितीयः । चिन्हैः किमन्यैरथवा तवेयं श्रीरेव ताभ्यामधिको विशेषः ॥-॥३॥ हेतुस्त्यक्त्वा बहूनथन् यत्रैकस्यावधारणम् । नेन्दुनर्कोऽयमौवाग्निः सागरादुत्थितो दहन् ॥ ४ ॥ हेतुरिति । अन्यदूषणेनैकपक्षावधारणं हेतुरित्यर्थः । अन्न चन्द्रत्वस्य दहन्नित्य- नेनार्कत्वस्य ‘सागरादुत्थित' इत्यनेन निरासपूर्वकमौत्वस्थापनम् । अयमपन्हुतिभेद इति कश्चित् ॥ ४ ॥
पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/८२
दिखावट