पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

राकागमसहिते चन्द्रालोके- पातालमिव नाभिस्ते स्तनौ क्षितिधरोपमौ । वेणादण्डः पुनरपि कालिन्दीपातसन्निभः ॥ इदमधिकोपमम् ।। पिशङ्गमौञ्जीयुजमर्जुनच्छविं वसानमेणाजिनमञ्जनयुति । कर्पूरसारद्युतिराजिश्रियं विडम्बयन्तं शितिवाससस्तनुम् ॥ अत्रोपमानस्य मौजीस्थानीयो धर्मो नोकः, उपमेये च गौरवमनुक्त्वैवोपमाने उक्तमिति धर्म तो न्यूनाधिकोपमत्वम् । सुवर्णसूत्राकलिताधराम्बरामिति पाठे तु न दोषः । 'चिन्तारत्नमिव च्युत इत्यादौ लिङ्गभेदः । 'सक्तवो भक्षित देव ! शुद्धाः कुलवधूरिख । इत्यादौ वचनभेदः । । अतिथि नाम काकुत्स्थात्पुत्रमाप कुमुद्धती । पश्चिमाद्यामिनीयामाप्रसादमिव चेतना ॥ इत्यत्र यथा चेतना प्रसादमाप्नोति तथे पुत्रमापेति कालभेदः । 'विधाजसे मकरकेतनमर्चयन्ती बालप्रवाळविटपप्रभवा लतेव ।' इत्यत्र 'लता विभ्राजते इति सम्बोध्यमाननिष्ठस्याऽसम्बोध्यमानोपमाननिष्ठतया व्यत्यासात् पुरुषभेदः । गङ्गव प्रवहतु ते सदैव कीर्तिरित्यादौ ‘प्रवहतीति विधिभेदः। ‘नलेन भायाः शशिना निशेव त्वया से भायान्निशया शशीव।' इति च । 'अनामि काव्यशशिनमित्यादौ प्रसिद्धय- भावाद्विरूपता, जाज्वल्यमाना इव वारिधारा' इत्पादावसम्भवात् । इत्युपमा- दोषाः । एवमुत्प्रेक्षायां साधम्र्यंमत्रवाचकसम्भावनाद्यवाचकयथापदसमभिव्याहारी दोषः । बहुधा सर्वेऽव्यलङ्कारा उपमागर्भा एवेति तद्दोषैरेव सर्वेषामलङ्काराणां दोषा ज्ञेयाः । एतेषां चाऽनुचितार्थत्वन्यूनाधिकपदत्वभन्नप्रक्रमस्वरूपतेति काव्य प्रकाशः ॥ ४४ ॥ महादेवः सत्रप्रमुखमखविचैकचतुरः । सुमित्रा तद्भक्तिप्रणिहितमतिर्यस्य पितरौ । द्वितीयस्तेनासौ सुकविजयदेवेन रचिते चिरं चन्द्रालोके सुखयतु मयूखः सुमनसः ॥ ४५ ॥ इति अपीयषवर्षपण्डितजयदेवविरविते चन्द्रालाकालङ्कारे दोषविचारो नाम द्वितीयो स्यूखः । विश्वेश्वरापरख्यस्य गागाभट्टमनीषिणः ।। चन्द्रालोकमयूखेऽभूदू द्वितीये विवृति: शुभा ॥ इति मीमांसकगागाभट्टकृतौ चन्द्रालोकटीकायां राकागमे द्वितीयो मयूखः । --- =specCOccccces-