पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६ राकागमसहिते चन्द्रालॉके- इत्यादिषु अज्ञानादिवर्णनम् । यथा कनकतेजस्विललाटतादीनि राजचिन्हानि तथा काव्यलक्षणान्यपि बहूनीत्यर्थः ॥ ११ ॥ महादेवः सन्न प्रमुखमखविचैकचतुरः। सुमित्रा तद्भक्तिप्रणिहितमतिर्यस्य पितरौ । तृतीयस्तेनासौ सुकाविजयदेवेन रचिते चिरं चन्द्रालोके सुखयतु मयूखः सुमनसः ॥ १२ ॥ इति श्रीपीयूषवर्षपण्डितजयदेवविरचिते चन्द्रालेकालङ्कारे लक्षणविचारो नाम तृतीयो मयूखः । विश्वेश्वरापराख्यस्य गागाभट्टमनीषिणः । चन्द्रालोकमयूखेऽभूतृतीये विवृतिः शुभा ॥ इति मीमांसकगागाभट्टकृत चन्द्रालोकटीकाया राकागमे तृतीयो मयूखः ।


999999999eos

चतुर्थी मयूखः । गुणाच निरूपयति- श्लेषो विघटमानार्थघटमानत्ववर्णनम् । स तु शाब्दः सजातीयैः शब्दैर्बन्धः सुखावहः ॥ १ ॥ उल्लसत्तनुतां नीतेऽनन्ते पुलककण्टकैः ।। भीतया मानवत्यैव श्रियाऽऽश्लिष्टं हरिं स्तुमः ।। २ ।। श्लेष इति । श्लेष द्विधा-अर्थश्लेषः शब्दश्लेषश्च । असम्भावितीर्थस्य सिद्धत्वेन कथनमायः, बहुना पदानामेकवद्भासने द्वितीय इत्यर्थः। उभयविधमुदाहरति- उल्लादिति । इदं मानवत्या असम्भावितस्यालिङ्कनस्य सिद्धत्वेन कथनादायो- दाहरणम् । 'नीतेऽनन्ते श्रियाऽऽशिलष्टमित्येकपदवज्ञानाद् द्वितीयोदाहरणम् । इदमेवा- जुसृत्य सरस्वतीकण्ठाभरणेऽपि श्लेषादिगुणनिभिधाय, उक्तः शब्दगुणा वाक्ये चतुर्विशतिरिल्यमी ॥ अथैतानेव वाक्यर्थिगुणत्वेन प्रचक्ष्महे । तेषां श्लेष इति प्रो संविधाने सुसूत्रता ॥ इति श्लेषल्यार्थगुणत्वमुक्तम् । न तस्यालङ्कारान्तर्गतिः । तस्य पर्यायपदो- पस्थाप्यपृथगर्थयो कच्चारणविषयत्वरूपार्थश्लेषात् पर्यायपदानुपस्थाप्यपृथगर्थयो(१)- (१) 'पर्यायपदानुपस्थाप्यपृथगर्थयोरित्यत्र “भिक्षयोः शब्दयोरिति - पुस्तके ।