पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६ राकागमसहिते चन्द्रालोके- स्यादिति । पदस्वरूपसन्देहजनकमर्थसन्देहजनके चेत्यर्थः । नयामिति । 'नदीदेशे गच्छन्तीत्यर्थस्य ‘स्वर्गे न गच्छन्तीत्यर्थस्य च प्रत्यायकत्वादर्थसन्देहः। द्वितीयान्त- सप्तम्यन्तत्वसन्देहेन द्विवर्णकैकवर्णकत्वसन्देहेन च पदस्वरूपसन्देह इति । शाल्लैक- गम्यमिति । कोशाधप्रसिद्धत्वे सति शास्त्रप्रसिद्धत्वमित्यर्थः । अनुमान वीतमवीत चेति द्वेधेति कारणलिङ्काऽनुमाने प्रसिद्ध न्यायशास्त्रे ॥ ९ ॥ शिथिलमुदाहरणेनैव इर्शयति- शिथिलं शयने लिल्ये मचितं ते शशिश्रियि । मस्तपिष्टकटीलोष्ठगल्लादि ग्राम्यमुच्यते ॥ १० ॥ शिथिलमिति । तच्च श्लेषरूगुणाभावः । श्लेषः सजातीयपदबन्ध इति वक्ष्यते । लिल्ये लीनम् । शशिश्रियीति सप्तम्यन्तं शयनविशेषणम् । इदं च काव्य- प्रकाशिकाय नोकम् । ग्राम्यमुदाहरति-मस्तेत्यादि । ग्राम्य हालिकाद्यविदग्ध मात्रचमत्कारजनकम् । नागरोपगगरशब्दत्यागपूर्वकग्राम्यशब्द प्रयोगेण वरवैदग्ध्यो- न्नयने श्रोतुयॆमुख्येन रसानुत्पत्तिर्दूषकताबीजम् । तेन विदूषकादावधमे वक्तरि न दोष- त्वम् । मस्तादिशब्द: क्रमेणोन्मत्तचूर्णितनितम्बमृत्पिण्डकपोलेषु ग्राम्याः । यथा वा--- मुष्टिमिताऽपि मृगाक्ष्याः कटिरेषा तुष्टिमावति । वसनग्रन्थिनिगूढा विहितहरिरुचिः सुदाममिक्षेत्र ॥ इदमनित्यदूषणम्, तेन हास्ये गुणः ॥ १० ॥ नेयाथै लक्षणाऽत्यन्तप्रसादमनोहरम् । हिमांशहाधिकारजागरे यामकाः कराः ।। ११ ।। नेयार्थमिति । लक्षणाया अत्यन्तप्रसरः परम्परितत्वं निषिद्धलाक्षणिकत्वम् । रुढिप्रयोजनाम्यां विना लक्षणा निषिद्धा, तद्वत्त्वम् । वृत्यभावेनाथनुपस्थितिषकता- बीजम् । हिमांशोः करा हारशोभाधिक्कारभीतचन्द्रमखो जागरे यामिका इत्यर्थः । अत्र हाधिक्कारादिपदम् अमनोहरत्वे लक्षणया प्रयुक्तम् । न च तत्रास्य रूढिने वा प्रयोजनम् । मुख्यशब्दार्थातिरे किशोऽर्थस्याप्रतीतेः ॥ ११ ॥ क्लिष्टम यदीयोऽर्थश्रेणिनिःश्रेणिमुच्छति ।। हरिप्रियापितृवधूप्रवाहप्रतिम वचः ।। १२ । • क्लिष्टमिति । भूयोऽर्थपरम्परया तात्पर्यविषयीभूतार्थप्रत्यायकमित्यर्थः । हरि- प्रियेत्यादिना गङ्गाप्रवाहप्रतीतेः । हरिप्रियाया लक्ष्म्याः पिता सिन्धुस्तस्य वर्गङ्गा तत्प्रवाहसदृशमित्यक्षरार्थः । अयं समासस्य पदतया पददोषः । यथा वा- गोगजवाहनभोजनभक्षोद्भूतपमिन्नसपत्नजशत्रोः ।