द्वितीयो मयूखः । - --
- -- - - - - व्यनक्तयनुचितार्थं यत्पदमाहुस्तदेव तत् ।। इयमद्भुतशाख्यग्रकेळकौतुकवानरी ॥ ५ ॥ व्यनक्तीति । वर्णनीयवैरूप्यबोधकमनुचितार्थमित्यालङ्कारिका आहुरित्यर्थः । इयमिति । अद्भुतरसस्याश्चर्यरसस्य शाखिनः अमें तत्र क्रीडाकौतुककत्यर्थः । अन्न वानरीति वैरूप्यबोधकम् ॥ ९ ॥ निरर्थकं तु हीत्यादि पूरणैकप्रयोजनम् । निरर्थकमिति । मान्नार्थकेनैकपदेन 'विजयते इत्यादीवुपसर्गे न चातिव्याप्तिः । हिकार एवोदाहरणम् ॥ ६ ॥ अर्थे विदधदित्यादौ दधदाद्यमवाचकम् ॥ ६ ॥ • धत्ते नभस्तलं भास्वानरुणं तरुणैः करैः ।। एकाक्षर चिना भूभ्रूक्ष्मादिकं खतळादिवत् ॥ ७॥ अर्थ इति । उपसर्गसमभिव्याहारेणैव तात्पर्थविषयीभूतार्थावबोधकस्य विनो. पसर्ग प्रयोगोऽवाचकत्वम् । अत्र ‘विधत्त' इत्यपेक्षिते धत्त' इति प्रयोगः । एवं च तात्पर्य विषयीभूतार्थप्रकारकबोधजनकत्वं शक्त्या लक्षणया वा यत्र न सम्भवति, तदवाचकम् । योगरूढं पदं योगमात्रेण प्रयुक्तमवाचकमेवेति केचित् । तात्पर्यविषयीभूतार्थबोधसह- कारित्यागोऽवाचकत्वमित्याशयः । भास्वान् सूर्यः तरुणैः प्रकाशमानैः करैः किरणै. भस्तले नभोऽरुण करोतीत्यर्थः । ननु खाद्येकाक्षरस्य तलादिपदसमभिव्याहारेण गृहीतशक्तिकस्य केवलस्यावाचकत्वं स्यादत आह-एकाक्षरमिति । एकाक्षरमित्युप- लक्षणम् , तद्भिन्नत्वे सतीत्यर्थः । सहकारित्यागे स्वार्थाबोधकत्वमवाचकत्वम् । भूभ्र. क्ष्मानभआदिपदे तलयुगादिपदत्यागे स्वार्थाबोधकत्वाभावान्नातिप्रसङ्गः । अप्रयुक्त- निहताथोऽवाचकानामसमर्थ एवान्तभवसम्भवेऽप्यालङ्कारिकसम्प्रदायमात्रेण भेदो युक इति काव्यप्रकाशः ।। त्रिधाऽश्लीलमाह- अश्लील त्रिविधं व्रीडाजुगुप्साऽमङ्गलात्मना । आल्हादसाधनं वायुः कान्तानाशे भवेत्कथम् ॥ ८ ॥ अश्लीलमिति। ब्रीडाद्यन्यतरहेतुकः कान्तिविरहोऽश्लीलत्वम् । विरुद्धमतिकृति शक्त्याऽत्र व्यञ्जनयेति भेदः । साधनवायुनाशपदानां पुलिङ्गाऽपानवायुमरणोपस्थापक. तया ब्रीडादिजनकतेत्याशयः । कान्तावियोगे पवन आनन्दहेतुः कथं स्थादित्यक्षरार्थः । अयमनित्यदोषः, तेन हास्ये शोके च गुणत्वम् ॥ ८ ॥ स्याद् द्वयर्थमिह सन्दिग्धं नद्यां यान्ति पतत्रिणः । स्यादप्रतीत शाखैकगम्यं वताऽनुमादिवत् ॥ ९ ॥