पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयो मयुखः । == = = वाहनवैरिकृतासनहृष्टा त्वामिह पातु जयत्त्रयतुष्ट (१) ॥ १२ ॥ . अविमृष्टविधेयांशः समासपिहिते विधौ । विसन्ति विशिखप्रायकटाक्षाः कामिनां हृदि ॥ १३ ॥ अविसृष्टेति । विधी विधेये समासेन पिहिते इतरविशेषणत्वेन निर्दिष्टे । विशिख- प्रायेत्यस्य कटाक्षविशेषणत्वेन निर्देशात्साक्षादिक्रयान्वयाभावेन विधेयत्वासम्भवात् ।

  • विशिखप्रायमिति पाठे तु न दोपः । यद्यपि विशिष्टस्य क्रियान्वये विशेषणस्यापि

तन्वयः प्रतीयते, तथापि-विशेष्यावच्छेदकतया प्रतीयते न साक्षात् । तेन साक्षाव क्रियान्वयप्रतीतिजन्यचमत्कारे विलम्ब इति । यथा वा--- . . विपक्षनृपनारीण पातिव्रत्यविलोपने । शुरः प्रतापो नायं ते तासां हृदवियोग यत् ।। अत्र वियोगाभावो विधेयः, स च समस्तेन विशेषणत्वेन निर्दिष्टः । न चात्र वियोगाभावविशिष्टहृदयो देशेनान्यत् किञ्चिद्विधेयमस्ति, येन ‘जुगोपात्मानमत्रस्तो भेजे धर्ममनातुरः' इत्यादाविव दोपाभावः स्यात् । यथा वा- रसैः कथा यस्य सुधावधीरणी नलः स भूजानिरभूदू गुणाऽद्भुतः । | सुवर्णदण्डैकसितातपत्रितज्वलत्प्रतापावलिकीर्तिमण्डलः ॥ - अत्र प्रतापावलिकीर्तिमण्डलोद्देशेन सुवर्णदण्डैकसितातपत्रितत्वं विधेयम् । तर समासान्तर्गतम् । न चेह विधेयस्य क्रियाविशेषणत्वात् समासेनेतरविशेषणत्वेनावग. तस्य क्रियाविशेषत्वानुपपत्तिर्दूषकताबीजम् । यथा 'वषट्कर्तुः प्रथमभक्षः इत्यादी वेकप्रसरताभङ्गस्य । स चोत्सर्गापवादाभ्यां तत्पुरुषे दृष्ट उकोदाहरणे इयङ्गैः स्विष्ट कृतं यजती'त्यत्र च । बहुव्रीहौ तु लोहितोष्णीषा ऋत्विजश्चरन्ति 'सप्तदशारित्नि वाजपेयस्य यूप' इत्यादावङ्गीकृतमेव विशेषणविषयत्वं विधेः । अतः कथमत्र से दोष इति वाच्यम् । दूषकताबीजौल्येन बहुव्रीहावयविशेषात् ।। रसैः कथा यस्य सुधावधीरणी नलेन तेनाशु कृतं महीभुजा ।। ज्वलत्प्रतापावलिकीर्तिमण्डलं सुवर्णदण्डैकचिंतातपत्रितम् ॥ । • इति पाठ तु न दोषः । अयमपि समासमत एव पददोषः ॥ १३ ॥ अपराधीन इत्यादि विरुद्धमातकुन्मतम् ।। अन्यसङ्गतमुत्तुङ्गहारशोभिपयोधरा ॥ १४ ॥ ( १ ) गवा वृषेण गच्छतीति गोगः शिवः, तज्जः कार्तिकेयः, तस्य वाहने मयूरः, तस्य भोजनं स, तस्य भक्षो अक्षण वायुः, तस्मादुद्भूत उत्पन्नो हनूमान् , पाति रक्षति योऽर्थात् सुग्रीवः, तस्य मित्रं श्रीरामचन्द्रः, तत्सपत्नो रावणः, तज्जो मेघनाद, तच्छन्नोरिन्द्रस्य वाहनमैरावतो गज, तस्य वैरी सिंहः, तत्र कृतेनासनेन स्थित्या हृष्टा, दुर्गा इति गूढोऽर्थः । स्पष्टमन्यत् ।