पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथम मयूखः ।। ११ घन्वित एव शक्तिमवधारयति । एवं चान्वयेऽपि शक्तिरित्याहुः । वेदान्तिनस्तु- अन्वयविशिष्टे शक्तिर्न कार्यान्विते, गौरवात् । तेनान्वयेऽपि शक्तिरित्याहुः । अन्ये तु वाक्याथै लक्षणी। नच वाक्यार्थाभावे अर्थ लक्षणेति वाच्यम् । पदार्थानामेव वाक्य. शक्यत्वाव तैश्च सम्बन्धसत्वात् । न च लक्षणाज्ञानस्य वाक्यार्थज्ञानहेतुतया पूर्व मगृहीतायां लक्षणायां कथं तज्जनकतेति वाच्यम् । वाक्यार्थज्ञानाव्यवहितपूर्वलक्षणा: ज्ञानाङ्गीकारात् । यथा प्रागविज्ञातहरिद्रानामकनदीविशेषेण ‘हरिद्राय नद्यां घोष इति श्रुते वाक्ये नदीपदसमभिव्याहारेण तदानीमेव ‘हरिद्राशब्दस्य नदीविशेषे शकि- मवधार्य तत्सम्बन्धि तीरं लक्षणयाऽवधार्यते, तथा पदश्रवणोत्तर पदार्थस्मरणाव्य- हितोत्तरकाल एव सम्बन्धो लक्षणयाऽवधार्यत इत्याहुः । परे तु-यथा बलवता प्रेरित इघुरे केव देगाख्यव्यापारेण वर्मच्छेदमुरोभेदं प्राणहरण शन्नोः करोत्येवं शब्द एकेना- भिधाव्यापारेण पदार्थस्मृति वाक्यानुभवं च करोतीति यत्परः शब्दः स शब्दार्थ इति वाक्याथै शक्तिमाहुः । तद्युम्, ‘पूर्वी धावती'त्यत्रापरस्य, पुत्रस्ते जात' इत्या- दिषु हर्षादीना, 'गच्छ गच्छसि चे'त्यादौ मा गा इति निषेधल्य वाक्यार्थतापत्तैः । अत एवेशार्थप्रत्ययाय व्यञ्जनैवाङ्गीकृता, तच्च व्यञ्जननिरूपणे स्पष्टमिति दिक् । केचित्तु वाक्याथै तात्पर्याख्यं वाक्यस्य वृत्यन्तरमाहुः । युक्तं तु सममिव्याहारेण वाक्यार्थबोध इति । घटानयनविशिष्टसंसर्गज्ञाने तादृशानुपूर्वीज्ञानस्य हेतुत्वमान्नकल्पने लाघवादिति । स च वाक्यार्थबोधश्चतुर्विधः । विशिष्टस्य वैशिष्टयमिति रीत्या, विशेष्ये विशेषणं तत्र च विशेषणान्तरमिति रीत्या, एकविशिष्टे अपरवैशिष्टयमिति रीत्या, एकत्र द्वयमिति रीत्या चेति ॥ १३ ॥ वाक्यत्वं खण्डवाक्यत्वं च कस्मिन्पदेऽव्यतीत्याह- वाक्यं च खण्डवाक्यं च पदमेकमपि क्वचित् ॥ १४ ॥ धूमवत्वादिति यथा देवेत्यामन्त्रणं तथा ।। वाक्यमिति । एकमपि पदं वाक्यं खण्डवाक्यं च क्वचिद्भवतीत्यर्थः । उदाहरति- धूमवत्वादिति । अन्न पञ्चम्यन्तस्यैकपदत्वं च हेत्वाकाङ्क्षानिवर्तकविशिष्टार्थप्रति. पादकत्वेन वाक्यत्वम् । देवेन्यत्रार्थसमाप्तेरभावात्सम्बोध्यत्वविशिष्टदेवप्रतिपादनात खण्डवाक्यत्वमित्यर्थः ॥ १४ ॥ वाक्यान्येकार्थविश्रान्तान्याहुक्कदम्बकम् ॥ १५ ॥ वाक्यानोति । एकार्थावच्छिन्नो वाक्यसमूहः प्रबन्ध इत्यथैः ॥ १६ ॥ महादेवः सत्रप्रमुखमखविचैकचतुरः । सुमित्रातद्भक्तिप्रणिहितमतिर्यस्य पितरौ ।