पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

राकागमसहिते चन्द्रालोके- अनेनाऽसावाद्यः सुकविजयदेवेन रचिते चिरं चन्द्राळोके सुखयतु मयूखः सुमनसः ॥ १६ ॥ इति श्रीपीयूषवर्षपण्डितजयदेवविरचिते चन्द्रालोकालङ्कारे वाग्विचारो नाम प्रथमो मयूखः ।। महादेव इति । अनेन प्रसिद्धेन कविना पण्डितेन जयदेवनाम्ना रचिते कृते चन्द्रालोकनाम्नि ग्रन्थेऽसावाद्यः प्रथमो मयूखः किरणः सुमनसः पण्डितान् चिरं सुख. यतु । यस्य महादेवनामा सुमित्रानाम्नी च पितरौ । किंभूतो महादेवः सत्रप्रमुखाः। सत्राद्या मखविद्या यागविद्याः तस्विकचतुरः, किंभूता सुमित्रा तस्य महादेवस्य भकि. राराधना तत्र प्रकर्षेण निहिता मतिर्ययेत्यन्वयः ॥ १६ ॥ विश्वेश्वरापराख्येन गागाभट्टमनीषिणा । चन्द्रालोकप्रकाशोऽयं मयूखे प्रथमे कृतः ॥ इति गागाभट्टकृतराकागमाभिधाय चन्द्रालोकटीकायां प्रथमो मयूखः ।। द्वितीयो मयूखः । लक्षणनिवेशानुरोधेन प्रथमं दोषानाह- स्याच्चेतो विशता येन सक्षता रमणीयता । शब्देऽर्थे च कृतोन्मेष दोषमुद्घोषयन्ति तम् ॥ १ ॥ स्यादिति । चेतसि प्रविष्टेन ज्ञातेन येन काव्यस्य रमणीयता चमत्कारकारिता रसाभिव्यञ्जकत्वं क्षतेन सहित प्रतिबद्धा स्यात् , तद्वर्णपदवाक्यरूपे शब्देऽर्थे चकारा- इसेऽलारे च कृस उन्मेषः प्राकट्यं येन ते दोषम् आलङ्कारिको उद्घोषयन्ति सङ्गिरन्त इत्यर्थः । तेनात्मनिष्ठदोषव्यावृत्तिः । अर्थसान्यतरप्रतीतिप्रतिबन्धकत्वं तदवच्छेदक- तया सिद्धो जातिविशेषो वा दोषत्वमित्याशयः । अत्रेदमवधेयम्-अनौचित्यप्रवर्ति- तत्वरूपरसदोषाणां ज्ञानोत्तरं वाक्याथै द्वेषोत्पत्या वाक्यार्थज्ञानेच्छाया अभावान्न वाक्यार्थज्ञानमिति तत्प्रतिबन्धकता । अश्लीलादिपददोषाणां तु शक्तिमूलव्यञ्जनया. ऽवगतेऽथे अश्लीलत्वज्ञानेऽपि तत्पूर्व जातस्य वाक्यार्थज्ञानस्याऽप्रतिबन्धात्कामिनी जिज्ञासादिवदन्तःकरणव्यग्रतापादकत्या स्वरूपेणैव रसोत्पत्तिप्रतिबन्धकता । एवमल- ङ्कारस्य वाक्यार्थत्वादलङ्कादोषाणामपि वाक्यार्थावबोधप्रतिबन्धकता । एवमन्येषा. मपि पददोषण वाक्यार्थज्ञाने विलम्बजनकतया दोषतेति । सरस्वतीकण्ठा. भरणकारस्तु-श्लेषप्रसादसमतादिगुणानां सार्थावबोधजनकवया सिद्धानामभावकूटो दोषो न जात्यन्तरम् । यथा-श्रुतिकटुत्वं सौकुमायभावः, कान्तेरभावो ग्राम्यत्वं, प्रसा