पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

राकागमसहिते चन्द्रालोके- - ~ -- - ~ . . . स्वस्य प्रत्यक्षमात्रवृत्तितयेष्टत्वात् । यथार्थज्ञानजनकत्वस्यैव प्रमाणत्वात् । आकाङ्क्षा- दिसहकारिपदार्थस्मरणजन्यार्थगमकत्वस्यैवानधिगतार्थगन्तृताया वा प्रामाण्यविधातः । यद्वा वाक्ये बोधकत्वातिरिकसम्बन्धो न शकि, मानाभावात् । इस्तिपकादौ तु तस्य मानान्तरगम्यत्वाद् युक्तं तेन तस्मरणम् । अतो न स्मारकत्वापत्तिलेशोऽपि । एवं चाकाङ्क्षादिज्ञानस्य हेतुत्वाभावात्तात्पर्यज्ञानस्यैव हेतुतया कार्यकारणभावकल्पना लाधवम् । यद्वा ‘घटमानयेत्यादिवाक्येषु ध्वनिधर्मेस्तारत्वमन्द्रत्वादिभिरिव घटत्वादि. ध्वनिधमैरेव एकः शब्दो वर्णरूपोऽभिव्यज्यते । स एव वाक्यस्फोटः । एवं पदस्फोटे. ऽपि वैविध्यमुन्नेयम् । एवं च-एकं पदम् एक वाक्यं महत्पदं महद्वाक्यं शब्दात्प्रत्येमी त्यनुभवोपपत्तिः । वर्णानामनेकत्वेन महत्त्वाभावेन च तदनुपपत्तेरिति । तन्न । विस- गदिनिधनानाशकिकल्पनमपेक्ष्यादेशिनिष्ठशक्तिकल्पनस्यैव लघुत्वात् । न च व्याकरण भेदेनाऽऽदेशिनामध्यननुगतत्वादनन्तशक्तिकल्पनापत्तिरिति वाच्यम् । परिगणित • व्याकरणबोधितादेशिनिष्ठशक्तिकल्पनातो विसर्गदिव्यक्तीनामनन्ततया तन्निष्ठशक्ति- कल्पनस्य गुरुत्वात् । न च विसर्गत्वादिजातिस्फोटकल्पनया तत्परिहारः । तथापि 'रामः गङ्गा नदी वनं धुक् फले फलानि इत्यादौ विसर्गत्वादिजातिषु शक्तिकल्पन- मपेक्ष्यादेशिनिष्ठशकिकल्पनस्य लघुत्वात् । न चाधीतव्याकरणत्रयस्य स्मरणाननुगमः । अभ्यासपोद्बोधकस्यैवानुगमकत्वात् । न च बोधकत्वातिरिक्ता न शक्तिः येन तत्क: पने गौवं स्यादिति वाच्यम् । घटपदादपि पटबोधापत्तेः । मम तु शक्तिरूपसम्बन्धी भावान्नान्वयबोध इति वैषम्यम् । सम्बन्धाभावस्तु बोधरूपकायभावेनाऽनुमेयः । तस्मान्न वर्णस्फोटः । धातुप्रत्ययानभिज्ञस्य 'ऐयरुरित्यादौ बोधापत्तैश्च ।.पदानां निर- वयवत्वम् 'ऐयरुरित्यादावनवबोधेन प्रकृतप्रत्ययविभागप्रदर्शनेन तदर्थबोधानुभवेन च विरुद्धम् । एवं वाक्यस्य निरवयवत्वमपि पढ्यमानश्लोकार्थानवबोधेन पदप्रदर्शनजन्य. श्लोकार्थानुभवेन च विरुद्धम् । संख्यापरिमाणप्रतीतिश्च ‘एको महान् धान्यराशिः रितिव दुपपन्नेति दिक् । । प्रभाकरास्तु-कार्यान्विते पदानां शक्तिः । तथा पदेषु स्मारिकानुभाविकी . चेति शकिद्वयम् । तत्र स्मारिका जातो, आनुमाविकी कार्यान्विते । एवं चे घटादि. पदानि घटत्वादिजातिस्मरणद्वारा घटादेः कार्यान्वयानुभवजनकानि । तथा हि- सर्वत्र व्यवहारेणैव शकिग्रहः। प्रयोज्य प्रयोजकवृद्धस्य वाक्यश्रवणानन्तरं गोकर्मका- नयनचेष्टया ताडाकृतीच्छानुमानद्वारा स्वप्रवृत्तौ कार्यताज्ञानस्य हेतुत्वदर्शनात्कार्यता. ज्ञानमनुमाय वाक्यस्य कार्यक्षाज्ञानहेतुत्वमवधार्थ तस्याः सति वृत्त्यन्तरे तदर्थशकि विनाऽनुपपन्नतया कार्यान्विते आनुभविक शक्तिमवधारयति । कार्य चापूर्वमेवेति । यत्र कार्यवाचकपदाभावस्तत्र न वाक्यार्थबोधः । लिडादियुक्तलौकिकवाक्यस्य लक्षणया आनयनादिरूपकार्यान्वितगोरूपार्थे ( वाक्यस्य १) शक्तिमवधार्थ आवापोद्वापाभ्यां गवादिपदस्य गोत्वादौ शक्तिमवधारयन्नाद्यव्युत्पत्तिगृहीतान्वयाँशे शक्तिमत्यजन्नानयना-