पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/२१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७० राकागमसहिते चन्द्रालोके दशमो मयूखः । पीयूषवषप्रभवं चन्द्रालोकं मनोहरम् । सुधानिधानमासाद्य अयध्वं विबुधा ! मुदम् ॥ ६ ॥ पीयूषेति । सुधानिधानं सुधास्पद प्रायं चन्द्रालोकग्रन्थं मनोहरम् आसाद्य प्राप्य सुदं प्रीति श्रयध्वमाश्रयध्वमित्यर्थः ॥ ६ ॥ जयन्ति याज्ञिकश्रीमन्महादेवाङ्गजन्मनः । सूक्तपीयूषवर्षस्य जयदेवकवेर्गिरः ॥ ६ ॥ जयन्तीति । जयदेवस्यैव पीयूषवध इति नामान्तरम् ॥ ६ ॥ महादेवः सत्र प्रमुखमखविचैकचतुरः । सुमित्रा तद्भक्तिप्रणिहितमतिर्यस्य पितरौ । मयूखस्तेनासौ सुकविजयदेवेन रचिते चिरं चन्द्रालोके महति दशसङ्ख्यः सुखयतु ।। ७ ॥ इति श्रीपीयूषवर्षपण्डितजयदेवविरचिते चन्द्रालोकालङ्कारे | अभिधानिरूपणाख्यो दशमो मयूखः । स्तुवन्त्वन्ये ग्रन्थं कथमपि च निदन्त्वपि परे | महाराजस्तष्येदथ मयि न तुष्येदपि वरम् । परं चिन्मुद्राया विघटनसमर्थन बहुना | अमेणऽयं तुष्येदथ जनकजायाः परिवृढः ॥ इति मीमांसकभइदिनकरसूलुगागाभट्टकृतचन्द्रालोकटोकाया राकागमाख्यायां दशमो मयूखः । समाप्तश्चायं ग्रन्थः ।