पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/२१८

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


दशमो मयूखः । पदवाक्ययोर्वर्णपदाभिव्यङ्गयत्वम् । वणभिव्यङ्ग्यं पदं पदाभियङ्गय वाक्यमिति पक्ष सखण्डाखौ पदवाक्यस्फोटो । एवं वर्णाभिव्यञ्जकवन्यभिव्यङ्ग्यो जातिस्फोटश्च वर्ण- स्फोट इति । जोऽपि द्विविधो विभावनीयः। एवञ्च-वर्णपदक्याभिब्यक्षकध्वन्यभि. व्यष्ट ग्यजातिस्फोटत्रयं वर्णशक्तिपदशक्तिवाक्यशक्तिरूपार्थस्फत्रियमिति षट् स्फोटाः । तत्र श्रेयस्य शब्दरूफोट इति संज्ञा त्रयस्य चार्थस्फोट इति वैयाकरणमतनिष्कर्पः । | तन्नेर्दै विमावनीयम्-ध्वन्यभिव्यङ्ग्यवर्णजातिस्फोटो नास्मन्मतं विरुणद्धि, वणीनां ध्वन्यभिव्यङग्यत्वात् । शब्दमान्न तु भिद्यते । अर्थाभिव्यञ्जकवर्णस्फोटस्तु अनेकति त्वादेववकतावच्छेदकत्वकल्पनागौरवापादकः । तदपेक्षया तस्वस्यैव तत्वौचित्यात् । तदनस्यार्थ प्रत्ययस्तु शकिभ्रमात्(१)। ‘पचते' इत्यादौ वर्णस्य कर्तरि सम्प्रदाने च शकौ सन्देहापत्तेश्च । एवं ‘यातमित्यादौ निष्ठात्वसंशयापत्तिः। एवं पदस्फोटेऽपि'अमू घटयति पत्यादावपि बोधापत्तिः । ननु च तव कर्थ संसर्ग धिः संसर्गमर्यादा च केयमिति चत् , सम्बन्धवनियम अनुपूविशेष इति विवक्षितविकेन गृहाण । यदि च तव तत्तदानुपूर्वज्ञानानां कारणताकल्पनं मम शक्तिकल्पनमिति तुल्यता विभाव्यते, तदा अनुपूज्य लौकिदृष्टवाददृष्टशक्तिकल्पनापेक्षया लाघवमपि विभावय । विभावयन्यत्र 'प्रविश पिण्ड गृहं भक्षयेत्यादौ तादृशानुपूर्वीस्मरणेने बाधम् । एतेन वाक्यस्फोटाऽपि प्रत्युक्तः। किञ्च-‘घटः कर्मत्वमा नयनं कृति' रिति निराकाङ्कवाक्यस्य कुतो न शक्तिरित्यादौ इच्छा विना न किञ्चिदुत्तरम् । मम तु अनुपूर्यभावान्न बोध इति सुलभम् । किञ्चास्तु नाम वर्ण स्फोटः । पदवाक्यस्फोटयोरङ्गीकारे, तौ किं नित्यानित्य वा १ अद्ये, किमानुपूर्यभिव्यङ्गयौ न वा १ । ध्वन्यानुपूत्य वर्णानुपूज्य वा पदानुपूज्य वाऽभिव्यञ्ज- कत्वे 'ततोरिति नयेन(१) अनुपूव्य एव संसर्गज्ञाने हेतुतऽस्तु, कृतं शशङ्करूपेण स्फोटेन । अतो नाद्यः । अन्त्ये, कि तज्ज्ञानम् १ वर्णमात्रं पदमात्रं वा तत् , 'घटः कत्वमित्यादावपि तदुत्पत्त्यापत्तेः । अतः अनुपूर्वीविशिष्टादीनामेव तदुत्पादकत्वं वाच्यम् । तत्र चोको दोषः । न च सर्वानुपपत्तिपरिहारायैको ध्वनिः पदवाक्याभिव्यय इति वाच्यम् । अनेकतत्तत्पदवाक्याभिव्यञ्जकाऽनन्तध्वनिव्यक्तितन्निष्ठ वैजात्यानन्त. स्फोटकल्पनमपेक्ष्य लोकप्रसिद्धानुपूर्वज्ञानस्य हेतुतामात्र कल्पने लाघवात् । यदि नित्या. पक्ष्य(३)लोकप्रद्धिानुपूतावादिनयेऽपि शकपदस्यैव नित्यत्वात् साधुत्वाच्च । घटकर्मत्वयोः संसर्गस्याऽऽनुपूर्वीविशेषलभ्यत्वाङ्गीकारे बाधाभावात् । एतेन वाक्य, शक्तिरूपवाक्यस्फोटनिरासेऽन्विताभिधानवादो लक्षणावादश्च परास्तः । विवृतं चैतत् प्रथममयूखे, स्पष्टीकृतं चाति न पौनरुक्यमिति चैव्यं सूरिभिः ॥ ४॥ ( १ ) 'ते भ्रमात् इति ख-पुस्तके । () 'तद्धेतोरे व तदस्तु, कि तेन' इति न्यायेनेत्यर्थ: । ( ३ ) अन्न ग्रन्थस्य कश्चिदंशस्त्रुटित इव प्रतिभाति ।