पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/२१७

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


राकागमसहिते चन्द्रालोके - - - - - -


--


- - - - -- - ~ ~ ~- ~ ~ - अत एव 'नानुयाजेष्वित्यत्र पर्युदासे लक्षणा । अत्यन्ताभावबोधसामन्याः सत्त्वेना. ऽन्योन्याभावस्य लक्षणया बोधादिति केचित् । तत्तुच्छम् । न पचति चत्र ‘चत्रस्य ने धमित्यादवित्यन्ताभावबोधो न स्यात् । अतो नविनिर्मोके अभेदान्वयाकाङ्का तदनाकोङ्खा च अन्योन्यत्यिन्तभावबोधसामग्रीति युक्तम् । नानुयाजेब्वित्यत्र पर्युदासे लक्षणेति ग्रन्थस्त्वनादरणीयः । त्वतला दिभावप्रत्ययस्य 'घटत्वं पटत्व, मित्यादौ घटस्वत्वादिकमर्थः । घटत्वत्वं च-धटेतरासमवेतत्वे सति घटनिष्ठान्योन्या- भावप्रतियोगितानवच्छेदकत्वे सति समवेतत्वम् । अत्रेतरसमवेताभावसकळनिष्ठान्योन्या. भावावच्छेदकसमवेतत्वेषु सप्त शक्तयः । संसर्गबोधो व्युत्पश्या । सवमित्यादीवेक- देशे लक्षणा। अन्न सदितासमवेतत्वस्याप्रसिद्धेः । एवं प्रमेयत्वमित्यत्रापि । एवमन्य- दूधम् । केचितु-धमें शकिः । कृत्तद्धितसमासोत्तरभावप्रत्ययस्य पदार्थतावच्छेदक- सामानाधिकरण्ये शक्तिः । 'नीलोत्पलत्वमौपगवत्वं पाचकत्वमित्यादौ नीलत्वे. समानाधिकरणोत्पलत्वम्, उपगुसमानाधिकरणापत्यत्वम् , पाकसमानाधिकरणकर्तृत्व- मिति बोधः । तदादिसर्वनाम्नां बुद्धिस्थत्वेन बुद्धिस्थघटादौ शक्तिः ।। महाभाष्यकारस्तु-गौः शुक्लश्चलो डिस्था इत्यादिशब्दानां जातिगुणक्रियाशब्द- चाचित्वेन चतुष्टयी शब्दप्रवृत्तिरित्याह। तस्यायमाशयः-गुणक्रियादीनामैक्येन तद्वति. जात्यभावाद् व्यक्तिरेव वाच्येति। तत्रापि प्रयुज्यमानपदसमभिव्याहृततिबादिवर्णनिष्ठा शक्तिः । कत्रादिबोधजनको वर्णस्फोटः । तत्र युक्तिः-व्याकरणभेदेन आदेशिनामना गतत्वेन तन्न शकिग्रहासम्भवात्, ‘पचमानः पच्यमान इत्यादौ कर्तृकर्मबोधासम्भ- वाच्चेति । ‘घटेन घटमित्यादौ तृतीयान्तद्वितीयान्तयोः करणत्वकर्मत्वविशिष्टे घटे शकिः । विशिष्टबोधजनकः पदस्फोटः । तत्र युकि:-प्रकृतिभागस्य घटे प्रत्ययभोगस्य कर्मवादौ शक्तिपक्षे घटनिष्ठकर्मत्वबोधो न स्यात् । न च संसर्गमर्यादया तद्बोधः । क्रमापेक्षया भिन्नायास्तस्या अलीकत्वात् । क्रमस्य च व्यवधानोभावरूपस्य वृस्या बोधकत्वासम्भवेन तद्बोधस्य वृत्तिजन्यस्वाभावेनाऽब्दत्वापत्तेः । तस्मात् पदस्यैव शक्तिरावश्यकीति पदस्फोटः । अत्र च द्वयी गतिः । वर्णसमुदायात्मकः पदरूपोऽवयवी, एके पदमिति प्रतीतेः । एवं सेनावनादावयेकोऽवयवी । स च वगैरभिव्यज्यते । वर्णानां मेलनं ३ संस्कारकल्पनयैवोपपादनीयम् । तदभिव्यङ्ग्यः स्फोटः । अयं च सखण्डपदस्फोट इत्युच्यते । यद्वा-वर्णसमुदायो ३ पदम् , किन्तु विजातीयध्वन्यमि- व्यङ्ग्यमेव पदम् । तत्र च वण न सन्ति । विजातीयध्वन्यभिव्यङ्गया या जातिः, सा पदम् । तत्रार्थबोधानुकूला शक्तिः पदस्फोटः । अयं चाऽखण्डपदस्फोट इत्युच्यते । एवं रेत्यादौ । 'घटमानयेत्यादौ घटकर्मकानयने वाक्यस्य शक्तिः । अन्यथा घटकर्मत्व- रूपमैसर्गस्य पूर्वोकनयेनाऽशाब्दत्वापत्तेः । संसर्गमयदायाश्च दत्तोत्तरत्वात् । अतो वाक्यस्य पदजन्यतया वर्णपदाभिव्यञ्जकवनिविजातीयध्वन्यभिव्यज्यमनितया वो सखण्डवाक्यस्फोट कृति । अखण्डवाक्यपक्षे ध्वन्यभिव्यङ्ग्यजातिस्फोट एव वाक्यमिति