दशमो मयूखः । १६५ कर्तृपदनिष्पत्तेः । 'थो गच्छति नश्यति जानती’त्यादौ रथादौ कर्तृपदप्रयोगो माकः । यद्वा-कारकान्वराप्रयोज्यत्वे सति करकान्तरप्रयोजकत्वं तत्वम् । 'धातूपाचव्यापार- श्रयत्वं तत्त्वमिति वैयाकरणाः । एवञ्च-रथादावपि मुख्य एवं प्रयोगः । तच्चानुकूल- व्यापारसम्बन्धेन, क्वचित्प्रतियोगित्वादिसम्बन्धेन । 'कुलं पिपतिपतीत्यादौ तु भाकः प्रयोगः । द्वितीयायाः कर्मत्वमर्थः, तञ्च-कर्तुरीप्सिततमत्वम् । 'दुःखमनुभवति 'श द्वेष्टि' इत्यादौ भाकः प्रयोगो द्वितीयायाः । यद्वा-परसमवेतक्रियाजन्यफलशालिदै धात्वर्थतावच्छेदकफलशालित्वं वा । तेन 'नदी वर्धते नश्यतीत्यादी कृलाद न कर्मत्वम् । वृद्धेवयवोपचयमात्रखाचित्वात् । गमियुजिपतीनां च संयोगविभागा. वच्छिन्नक्रियावाचितया न पूर्वोत्तरप्रदेशयोः । पतेर्गुरुत्वासमवायिकारणकक्रिया मात्रैवाचितयाऽधःसंयोगावच्छिन्नक्रियावाचित्वाभावेन न भूमेः कर्मत्वम् । “नरके पततीत्यत्र पतिः प्राप्तौ भाकः। करणत्वं तृतीयार्थः । तच्च-कर्तृव्यापार्यत्वं व्यापारव. साधारणकारणत्वम् , फलायोगव्यवच्छिन्नकारणत्वं वा । पूर्वलक्षणे दण्डेन्द्रियादीनां घटचाक्षुषादौ करणत्वम्, द्वितीये तु तत्संयोगस्य । 'चैत्रेण पच्यते” इत्यादावधेयत्वे तृतीया भाका। 'जटानिस्तापस' इत्यादौ विशेषणत्वे । 'गोत्रेण गाग्र्यः इत्यादा- वभेदे । सम्प्रदानत्वं चतुर्थः। तच्च-त्यागजन्यफलभागित्वेनदेश्यत्वविशिष्टप्रति. ग्रहीतृत्वम् । न तु त्यागोद्देश्यत्वमात्रम् । दैवतायामतिव्यासेः । अत्रोद्देश्यत्वे प्रतिग्रही तृत्वे च शक्तिः।अन्य धातुसमभिव्याहारादिभ्यम्। 'रजकाय ददाती'त्यादौ लक्षणा । अपादानत्वं पञ्चम्यर्थः । तच्च-परसमवेतक्रियाजन्यविभागाश्रयत्वम् । यथा ‘वृक्षात् पर्ने पततीत्यन्न वृक्षः । पर्णस्यापादानत्ववारणाय परसमवेतेति । 'व्याघ्राद् विभेती'त्यादौ लक्षण । सम्बन्धमानं षष्ठ्यर्थः । स द्विविधः, साक्षात् परम्परारूपश्च । लक्षणया योग्यताबलेन वा लम्यः। सप्तम्या अधिकरणत्वमर्थः। तच्च स्थायां पचति, गृहे पचति, मध्याहे पचतीत्यादिप्रयोगात् साक्षात्परम्परासाधारणं व्यापारतत्कारकद्वारकम् । चर्मणि द्वीपिन हन्तीत्यादौ निमित्ते लक्षणा। निमितत्ववाननुगत कार्यत्वोपलक्षण: त्खादि । निमित्तेऽपि शक्तिरित्यन्ये । कर्मत्वकरणत्वादीनां साक्षात क्रियान्वयः । जटाभिस्वापस इत्यादावित्थंभूतलक्षणे तृतीयायाः क्रियान्तरसम्बन्ध (१) इति लाक्ष- णिकत्वमेव ।। । एवं समासेष्वपि क्वचित् शक्त्या बोधः, छविलक्षणया। तथा हि-समासश्चतु- विधः, अव्ययीभावतत्पुरुषबहुव्रीहिद्वन्द्वभेदात् । समासत्वं च-अव्ययीभावादिचतुष्का- न्यतमत्वम् । अव्ययीभावत्वं च अव्ययार्थविशेष्यकसमासत्वम् । यथा 'सूपप्रती'. त्यादौ सूपलेश इति बोधात् । एवम् ‘उपकुम्भ'मित्यादावपि कुम्भसामीप्यबोधात् ।
- पुन्मत्तगङ्गमित्यादिनित्यसमासेऽपि अव्ययार्थदेशस्य प्राधान्याछक्षणसमन्वयः ।
नित्यसमासस्वं च-अविग्रहवयमस्वपदविग्रहत्वं च । तन्नैतस्याऽविग्रहसमासतया देशे ( १ ) अन्न द्वारकाच्युतक्रियासम्बन्धः इत्यधिके क-पुस्तके