पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/२१५

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


कागमसहिते चन्द्रालोके- -- रूढत्वाव्ययार्थ प्राधान्यमव्याहतम् । एवं तिष्ठद्गु दोहनकालः त्रिसुनि व्याकरण'. मित्यादावण्यव्ययार्थ प्राधान्य बोध्यम् । एतेन ‘पूर्वपदार्थ प्रधानोऽव्ययीभावइति प्राची नोकिरपास्ता। 'सूपप्रति’ ‘उन्मत्तगङ्गमित्यादावव्याप्तेः । यद्वा, अन्यपदार्थ प्राधान्थे ‘उन्मत्तगङ्गमित्यादौ 'अन्यपदार्थं च संज्ञायामिति सूत्रविहिताव्ययीभावे- ऽवयवार्थ योगाभावेन मुख्यसमासत्वाभावात् । तदधिकारपाठस्य तन्निमित्तकाऽमादेश- स्वरादिप्रयोजनकत्वात् । ‘तिष्ठद्गुप्रभृतीनि चेतिगणपाठपठितसंज्ञानां तत्कार्यव्याप्त्यर्थ. मव्ययीभावत्वे विहिते तदपठितानामप्यव्ययीभावत्वविधानात् । एवं पारेगङ्गमित्य. त्रापि अव्ययरूपपारेपदार्थ प्राधान्यात् । त्रिमुनि व्याकरणम्' 'एकविंशति भारद्वाज- मित्यादावुभयपदलक्ष्यविद्याजन्मसम्भवे प्राधान्यात्समासस्य चाव्ययत्वादत्र लक्षणसम. न्वयः । उत्तरपदार्थ प्रधानसमासत्वं तत्पुरुषत्वमिति जीर्णाः। तत्र ‘अर्धपिप्पलीत्यादा वव्याप्तः । अतो विग्रहकालीनप्रथमान्तपदार्थोंत्तरपदार्थान्यतरप्रधानकसमासत्वं तत्पुरु- षत्वम्। 'प्राप्तजीविकः ‘पूर्वकाय' इत्यादावपि । 'स्नातानुलिप्तः कृताकृतमित्यादौ । अनुलेपनपूर्वकालीनस्नानवान् स्नानोत्तरकालीनानुलेपनवानिति बोधेन लक्षणनिवेशः । 'ऋताकृतमित्यत्राप्यकृतविशिष्टस्यैव प्राधान्याभावात् । अस्ति चेदं त्रिविधेऽपि तत्पुरुषे । राजपुरुष इत्यादिब्यधिकरणे, 'नीलोत्पल-मित्यादिसमानाधिकरणे, ‘पञ्चाप्ति. रित्यादौ द्विगुरूपे च । अकस्थलेऽप्यर्धपदार्थे प्राधान्यान्नाव्याप्तिः । एवम् ‘अतिप्रज्ञो 'निष्कौशाम्बररित्यादावपि प्रथमान्ताऽत्यादिपदानामतिक्रान्तनिष्क्रान्तादिपुरुषे लाक्षणिकानामर्थस्य प्राधान्याल्लक्षणसमन्वयः। एवम् उच्चावचनिश्चितापचितमित्यादी- वपि उच्चमेवाऽवचं निश्चितमेवापचितमिति बोधादुत्तरपदार्थ प्राधान्योपपत्तिः। एवमन्य- ब्राप्यवधेयम् । अत्र प्राधान्यं सुविभक्त्यथन्वयद्वारा क्रियान्वयित्वम् । समस्यमान. पदार्थांतिरिकपदार्थ प्रधानकबोधजनकसमासत्व बहुव्रीहित्वम् । वर्तते चेदं चिन्नग्वादि. पदे। नच 'द्वित्रा' इति बहुव्रीहौ ‘सङ्ख्ययाऽव्ययेति सूत्रविहिते ‘द्वौ वा यो वेत्यर्थंके- ऽव्याप्तिः। द्वित्रा गच्छन्तीति वाक्येन 'अल्पे गच्छन्तीति बोधादन्यपदार्थप्रधानत्वस्य व्याहते रूपान्तरेण सङ्ख्येयप्राधान्ये बहुव्रीहिरिति सूत्रार्थः । अन्न चल्पित्वेन बोधाद् रूपान्तरेण बोधः । 'उपदशा इत्यादाक्कादशत्वादिना । एवं 'केशाकेजि 'मुष्टीमुष्टी त्यादीवन्यपदार्थयुद्धत्वेन प्राधान्यमिति लक्षणसमन्वयः। एवं 'सपुत्रः इत्यादौ तुल्यव. देकक्रियान्वयित्वेन रूपेणाऽन्यपदार्थस्य पित्रादेः प्राधान्यमिति । अयं च द्विविधः, तदुणसं विज्ञानोऽतदुणसंविज्ञानश्चेति । 'लम्बकर्णमानयेत्यादावाद्यः । ( 'हृष्टसागर. मानयेग्ल्यादावन्त्यः ।)(१) । एवं दशलक्काराणां तत्वेन कृतौ व्यापारे वा शकिः। न च 'लः कर्मणि च भावे चेति पाणिनिस्मातेरनभिहिताधिकारकर्तृकर्मवाचिद्वितीयतृतीययोः 'चैत्रः पञ्चति | (१) नाम्न निदिष्टपूर्वः प्राप्तावसरोऽपि द्वन्द्वसमासो नात्र किञ्चित्प्रपञ्चितो भने अनोऽन्यः कश्चिदंशो देखकप्रमादेन श्रुटिताऽस्तीति प्रतीयते ।