पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/२१३

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


राकागमसहिते चन्द्रालोके- द्योतकत्वमस्मिन्मते बोध्यम् । ‘डीबादीनामेव वाचकत्वमित्यपि केचित् । यद्वा- जातिव्यक्तिलिङ्गसंख्या इति चतुष्कं प्रातिपदिकार्थः । यद्वा-कारकमपि प्रातिपदिकार्थ इति पञ्चकं प्रातिपदिकार्थः । 'दधि पश्येत्यादौ प्रातिपदिकादेव तत्प्रत्ययात् । एवञ्च- विभक्केद्यतकत्वमात्रम् । तेनैव च नामार्थप्रकारकशाब्दबोधे सुवादिजन्योपस्थिते. हँतुत्वनिर्वाह इति दिक् । एतच्च सर्व महाभाष्ये सरूपाणामेकशेष' इति सूत्रे स्पष्टम् ।। आलङ्कारिकास्तु-षट्के प्रातिपदिकार्थः । “विषयत्वमनादृत्य शब्देनार्थः प्रका. श्यते । इति मतावष्टम्भेन पञ्चके प्रातिपदिकार्थः, परन्तु शब्दस्यापि प्रातिपदिकार्थत्वात् षट्के प्रातिपदिकार्थः । तथा हि-गासुचारयेत्यादिलौकिकप्रयोगे ‘कवतीषु रथन्तरं गायतीश्यादिवैदिकप्रयोगे च शब्दोऽपि भासत इति निर्विवादम् । वृत्तिविषय एवं शाब्दबोधे विषय इति च नियमः । तथा च-शब्दस्यापि शब्दशक्तिविषयतया भान. मङ्गीकार्यम् । तत्र घटादिपदे शब्दनिरूपितापि शक्तिर्भिन्ना कल्यतः इति केचित् । अन्ये १-शक्तिविषयोऽर्थी भासते । शक्तिविषयत्वं च-आश्रयतानिरूपकतासम्बन्धेन शक्तिमत्वम् । तथाच-अर्थशक्तिज्ञानेनैव पदस्यापि भानम् । तेन घटादिपदाना शक्तिसम्ब. न्धेन घटत्वादिवत् पदमपि शक्यम् । एतावास्तु विशेषः यत् सम्बन्धस्योभयनिरूप्यत्वेन सम्बन्धिद्वयोपस्थापकत्वाविशेषाद् घटत्वोच्चवच्छिन्नशक्त्यैव घटत्वादिवच्छब्दस्यापि । तयैव वृत्त्योपस्थितौ सत्यामर्थबोधे तात्पर्ये सति तत्र विशेषणतया स शब्दो भासते । तत्रापि घटत्वादिरूपेण विशिष्यशकिग्रहवत वटजात्युभयप्रकारको बोधः । नळयुधि- छिरादिपदवद् विशिष्यशक्तिमहाभावे तु शब्दव्यक्तिविशेष्यकः केवलं पदप्रकारको नल. पदवाच्यः कश्चिदित्याकारको बोधः । यत्र तुकोदाहरणेषु शब्दमात्रे तात्पर्यम् , तदा तयैव शक्त्या शब्दस्वरूपस्य प्राधान्येन भानमिति । एवञ्च क्वचित्तात्पर्यवशात् शब्द एव प्राधान्येन भासते क्वचित्तदभावेऽर्थविषयत्वेनेति सिद्धम् । अत एव‘अग्निहोत्रं जुहोतीत्यादौ नामार्थविशेषणत्वेनाऽन्वयादग्निहोत्रनामकेनेति बोधः। एतेनाऽग्निहोत्र. नामके निरूढलक्षणेति निरस्तम् । अनुपपत्यभावात् । मत्वर्थे लक्षणातौल्येन सिद्धान्ताऽनुदयाच्च । अतः शब्दोऽपि वाच्यः । एवञ्च- sigदेति सविता तान्नस्तान्न एवास्तमेति च । सम्पत्तौ च विपत्तौ च महतामेकरूपता ।। इत्यादौ ३. एखास्तमेति' इति यदा क्रियते तदा पदान्तरप्रतिपादितः स एवार्थोऽन्तरतयेव प्रतिभासत इति काव्यप्रकाशोक्तिः सङ्गच्छते । अतः षटके प्रातिपदिकार्थ इति दिक् । तदुत्वम्- ग्राह्यत्वं ग्राहकत्वं च हे शक्ती तेजसो यथा । तथैव सर्वशब्दानामेते पृथगवस्थिते ॥ इति। सुबूविभीनामष्यभिहितकर्तृककर्माभिधायिनी प्रथमेति केचित् । प्रति पदिको प्रश्नमा' इत्यन्ये । कर्तृत्वं च यत्नाश्रयत्वम् । यत्नवाधिकाऽश्रयवाचितूचा च