पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/२०८

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


नवमोमयूखः । लक्ष्यत इति ! 'छत्रिणो गच्छन्त'त्यन्न समवायः । स च समुदायान्तःपातित्वम् । अकुशले कुशलपदप्रयोगे वैपरीत्य सम्बन्धः । ‘युधिष्ठिरो राजेत्यादी तत्कार्यकारित्व मिति ॥ ८-९ ॥ प्रकारान्तरेण प्रयोजदेवत्या भेदचतुष्टयमाह- सारोपाध्यवसानाख्ये गौणशुद्धे पृथक् पृथक् ॥ १० ॥ गौणं सारोपमुद्दिष्टमिन्दुर्मुखमितीदृशम् । गौणं साध्यवसानं स्यादिन्दुरेवेदमीदृशम् ॥ ११ ॥ शुद्धं सारोपमुद्दिष्टमायुर्घतमितादृशम् ।। शुद्धं साध्यवसानं स्यादागुरे वेदमीदृशम् ॥ १२ ॥ सापेति । आरोष्यमाणारोपविषययोर्भेदेनोको सारोपा। यत्रारोपविषय आरो- प्यमाणस्वरूपेणैवोको न भिन्नरूपण, तत्र साध्यवसाना । सा द्विधा, सादृश्यसम्बन्ध घटिता गौगी, तदतिरिकासम्बन्धघटिता शुद्धेति भेदः । केचित्तु-लक्षकपदार्थस्य लक्ष्यस्य चाभेदेन भने गौणी, तदभावे शुढे ति भेदमाहुः। तन्न, 'गङ्गाया घोष' इत्यत्र गङ्गातीरभेदभानाभावे गङ्गानिष्ठशैत्यपावनत्वादेर्वोर्ष प्रतीतिः कथं स्यात् । गङ्गासम्ब न्धमात्रप्रतीतौ 'गङ्गाया घोषः। 'गङ्गातीरे धोषः' इत्यनयोर्भदोन स्यात् । अतः शुद्धाया- मपि लक्ष्यलक्षकयोरभेदो भासत इति काव्यप्रकाशादयः । उदाहरणान्याह-गौणं सारेपमिति । 'इन्दुर्मुखमित्यत्र सादृश्यसम्बन्धादारोग्यारोपविषययोदोश्च गौणसारोपेत्यर्थः । 'इन्दुरेवेदमित्यत्र आरोग्यस्वरूपेणैवारोपविषयस्योक्तेः सादृश्य- सम्बन्धाच्च गौणसाध्यवसानेत्यर्थः । शुद्ध सारोपमिति । ‘आयुर्वत’मित्यन्न कार- णत्वसम्बन्धाद्भेदोपादानाच्च शुढेत्यर्थः । शुद्ध साध्यवसानमिति । 'आयुरेवेद- मित्यत्र कारणत्वसम्बन्धीदारोग्यस्वरूपेणैवारोपविषयस्योक्तेः शुद्धं साध्यवसानमि. त्यर्थः । एतेषां सारोपाभेदानां रूपके उपयोगः, साध्यवसानाभेदानां चीतशयोकौ । इन्दुपदस्य तादात्म्यसम्बन्धेन सुखे लाक्षणिकत्वाच्छुद्धसरोपादिसम्भवात् । एतेन- सादृश्यस्य सम्बन्धत्वे रूपकत्वबाधः' इत्यादि परास्तम् । सादृश्यस्य तादात्म्यघटक- त्वात्तादात्म्यस्याहार्यत्वाच्च । अत्र केचित्-गौणसारोपसाध्यवसानयोर्यदा सादृश्य- सम्बन्धत्वेन भाने, तदास्तु लक्षण । यदा सिंहनिवगुणानां क्रौर्यादीनां सिंहनिष्टगुण- सजातीयगुणानां वा तत्प्रकारतया भानं, तदा साश्यस्य सम्बन्धत्वानुपपत्ते गौणी वृत्तिरेव भिन्नेत्याहुः ॥ १०-१२ ॥ शुद्धसारोपसाध्यवसानयो¥यमाइ- उपादानार्पणद्वारे द्वे चान्ये इति षडुविधा। कुन्ता विशन्ति गङ्गयां घोषो निवसतीति च ।। १३ ॥