राकागमसहिते चन्द्रालोके- - उपादानेति । स्वार्थमुपदायाऽत्यागेन लक्षणा स्वाथांदणमात्रेण तदविवक्षयेत्यर्थः। तेन अजहत्स्वार्थी जहत्स्वार्थेति भेदद्वयम् । शक्यार्थस्य क्रियान्वये अजहत्स्वार्था, शक्यार्थस्य क्रियान्वयाभावे जहत्स्वाथेति तात्पर्यम् । उदाहरणमाह-कुन्ता विश. न्तीत्यत्र कुन्तानां प्रवेशान्वयसिद्ध्यर्थं तद्वन्तः पुरुषा लक्ष्यन्ते। गङ्गाया घोष इत्यत्र तु गङ्गापदार्थप्रवाहस्य न क्रियान्वयः । किन्तु तीरक्षणार्थतदुपस्थितिमात्रमित्यर्थः । केचित्तु-‘जहदजहत्स्वार्थरूपं तृतीय भेदमाहुः । इयमेव भागत्यागलक्षणा ॥१३॥ भेडद्वयमन्यदाह- लक्ष्यलक्षकवैशिष्टयवैशिष्ट्याद् द्विविधा पुनः ।। सरसं काव्यममतं विद्या स्थिरतरं धनम् ॥ १४ ॥ | लक्ष्येति । तत्कार्यकारित्वसम्बन्धेनाऽमृतपदेन विशिष्टकाव्ये सुखजनकत्वं लक्ष्यते । 'स्थिरतरं धन मिति पदद्वयेन च विशिष्टधनकार्यकारित्वसम्बन्धेन सुखजनकत्वं विद्या याम् । तत्र विशिष्टं लक्ष्यम् , अन्न विशिष्टं लक्षकमिति भेदः । विशिष्टलक्ष्ये वैशिष्टयं सम्बन्धः, विशिष्टलक्षके न वैशिष्टयं सम्बन्धस्तकृतलक्षणभेद इत्यक्षरार्थः । सरसमिति । अत्र विशिष्टकाव्योद्देशेनामृतत्वं विधेयम् । द्वितीये विद्योद्देशेन विशिष्ट धनत्वं विधेयम् । एकत्र विशिष्टकाव्येऽन्यत्र पदद्वयेन सुखजनकत्वं लक्ष्यत इत्याशयः । केचितु-'गभीराया नद्यां धोष इत्यादौ नदीपदमेव विशिष्टनदीतीरे लाक्षणिकं गभीर. प' तात्पर्यग्राहक यथा, तथान्नापीत्याहुः ॥ १४ ॥ सहेतुनिडेतुभेदेन भेदद्वयमन्यदहि- तथा सहेतुरतयाभेदभिन्ना च कुत्रचित् ।। सौन्दर्येणैव कन्दर्पः सा च मूर्तिमती रतिः ।। १५ ।। तथेति । उदाहरणे सौन्दर्येणेति हेतुः । सा चेति द्वितीयोदाहरणम् ॥ १९ ॥ शब्दे पदार्थे वाक्यायें सङ्ख्याय कारके तथा ।। ळिके चेयमलङ्काराङ्करबीजतया स्थिता ।। १६ ।। शब्द इति । शब्दे ‘अग्नेरग्निर्नष्ट' इत्यत्र अग्निशब्देनाऽधिक्ष्यते । अर्थे 'मुख चन्द्र' इत्यत्र इत्यत्र मुखपदार्थन तादात्म्यं लक्ष्यते । यद् गुरुवचनमकर्णयन्ति तदमृतं पिबन्तति वाक्यार्थे । अन्न वाक्यार्थयोरेवैक्यारोपात् । “त्वन्नेत्रयुगलं धत्ते लीला नीलाम्बुजन्मनोः इति वाक्येन शोभा विशेष लक्ष्यते । “यावन्तो युद्धप्रियास्तावन्तो. ऽर्जुना इत्यत्र बहुत्वसङ्ख्यया पूज्यत्वम् । 'स्थाली पचती'त्यधिकरणकोरके । 'हस्तिन्य हस्तीति लिङ्गे । राजत्वेनाऽलङ्कारादेरकुरत्वेन स्थिती, अङ्गीकृतेत्यर्थः ॥१६॥ महादेवः सत्रप्रमुखपखवचैकचतुरः । सुमित्रा तद्भक्तिप्रणिहितमतिर्थस्य पितरौ ।
पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/२०९
दिखावट