पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/२०७

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


राकागमसहिते चन्द्रालाके- पटोऽयं दग्ध इत्यादौ स्फुटं नास्ति प्रयोजनम् ॥ ७॥ अमृतं सूक्तमित्यादौ लक्ष्यस्थमतिहृद्यता ॥ इन्दुरिति । इदं च लक्ष्यलक्षकनिष्ठस्फुव्यङ्ग्यायो उदाहरणम् । यदा चन्द्रपद मुखे लाक्षणिक, तदा लक्ष्यमुखनिष्ठे प्रयोजनम् । यदा तु मुखपदं चन्द्रे लाक्षणिक, तदा लक्षकमुखपदार्थ निष्ठम् । तटस्थप्रयोजनवल्या उदाहरणे ‘प्रदीप मिति । इदं च वृद्ध्य- थंकवृधुधातव्यतिरेकसम्बन्धेन नाशे लक्षणया प्रयोगे बोध्यम् । (१)नाशार्थकवृधधातो. वृद्धौ लक्षणया प्रयोगेऽत्र प्रयोजनस्य वक्तृश्रोतृनिष्ठत्वात्तटस्थत्वम् । इदं च द्विविधाया अप्युदाहरणम् । लक्षकनिष्ठस्फुटप्रयोजनवत्या अदाहरणमाह-पटोऽयमिति । अत्र पटपदेन दुग्धपदसमभिव्याहृतेन दग्धैकदेशः पटो लक्ष्यते । कर्माऽनर्हताप्रतीतिः प्रयो- जनम् । तच्च लक्षकपटपदार्थनिष्ठम् । दुग्धपदेन वा दुग्धैकदेशपटलक्षणे लक्ष्यार्थनिष्ठ. प्रयोजनकत्वमपि बोध्यम् । लक्ष्यस्थाऽस्फुटप्रयोजनवत्या उदाहरणम्-अमृतमिति । अमृतपदेन रसवलक्ष्यते । अतिहृयता च प्रयोजनं काव्यनिष्ठमेवेति ॥ ६-७ ॥ लक्षणाबीजसम्बन्धानाह- आभिमुख्यात् सन्निधानात्तथाऽऽकारप्रतीतितः ॥ ८॥ कार्यकारणभावाच्च वाच्यवाचकभावतः । इत्येवमादिसम्बन्धात् किञ्चान्यस्माच्चतुष्टयात् ॥ १ ॥ सादृश्यात् समचायात् सा वैषरीत्या क्रियान्वयात् ।। अभिमुख्यादिति। 'अमुल्यमै करिशतःमिति अगुल्यग्रशब्दस्य लक्ष्यदेशेना- sऽभिमुख्य सम्बन्धः । 'गङ्गाय घोष इत्यादौ 'वृक्षाग्रे चन्द्र' इत्यादौ च सन्निधिः । एकत्र वास्तवोऽपरत्र भ्रान्तिविषयः । अत्र हेतुमाह-तथाकारेति । सान्निध्याकार. प्रतीतित इत्यर्थः । कार्येति । 'घृतमायुरित्यत्र चुतस्य लक्ष्ये आयुषि कार्यत्वम् । आयुर्घतमित्यन्न आयुःपलक्ष्ये घृते कारणत्वम् । भ्रमरपदोच्चारणे द्विरेफमुच्चरि- यतीति वाक्ये द्विरेफपदस्य योगवृत्या लक्ष्यभ्रमरपदवीध्यत्वं सम्बन्धः । घटमुच्चा रयती'त्यत्र वाचकतासम्बन्धेन घटपदे लक्षणा । आदिपदेन छवित्तादर्थम्-इन्द्रा स्थूणा इन्द्रः। स्वस्वामिभावः-राज्ञः पुरुषो राजा । 'अग्रहस्त' इत्यन्न अग्रावयवे हस्त- शब्दोऽवयवसम्बन्धात् । तात्कम्यद् अतक्षरि तक्षशब्द इति । 'गौर्वाहीक' इत्यत्र सादृश्यम् । अत्र गोशब्दार्थगोत्वसहचारिणो धर्मा जाड्यमान्छादयो लक्ष्यमाणा अपि गोशब्दस्य पराथमिधाने प्रवृत्तिनिमित्तं भवन्ति । यद्वा-स्वार्थसहचारिगुणाभेदेन पर- बैंगत गुणा एव लक्ष्यन्ते न त परार्थोऽभिधीयते । यद्वा-साधारगुणाश्रयणेन परार्थं एवं (१) 'इदं चैत्यमन्तरे बोध्यमित्यन्तः पाठः ख-पुस्तके नास्ति ।