पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/२०२

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


अष्टभो मयुखः ! १५३ लभ्यः सम्भोगः । ऋचारु यथा- सूक्ष्मे बने हैपधकेशपाई पित्य निरूपन्दतरीभवद्भयम् । तत्रानुबन्ध न विमोच्य गन्तुमपारि तल्लोचनखञ्जनाभ्याम् ।। अत्र सादरावलोकनको व्यङ्ग्यम् , तद् वायरूपकायपेक्षया अचाः ॥ ३ ॥ अपरस्य रसदेचेदङ्गमन्यद् रमादिकम् ! हा ! हा ! मत्कुचकाश्मीरलिप्तं भिन्नमुरः शरैः ।। ४ ।।। | अपरस्येति । अादिना भावादिग्रहणम् । “हाहेति रणे पति कान्ते कन्याश्चि- दुक्तिः । अन्न व्यग्यशृङ्गारस्य अरुणाङ्गत्वम् । एतस्योदाहरणान्तराणि रसवत्प्रेयऊर्ज व्यलङ्कारकथने उक्तानि । वाच्यसिद्ध्यङ्गमाह- तथा वाच्षस्य सिद्ध्यङ्गं नौरर्थो वारिधैर्यया ।। संश्रित्य तरणि धीरास्तरन्ति व्याधिवारिधीन् ॥ ५ ॥ तथेति । वाच्यार्थ प्रतीतेरड्मुपपादको व्यग्योऽ” यत्र, तदपि मध्यमका• व्यम् । उदाहरति-संश्रित्येति । अन्न प्रकरणेन सूर्य नियतस्तरणिशब्दो न नौकावाचकः, किन्तु ध्यञ्जकः । स च व्यग्यो नौकारूपोऽर्थो वाच्यस्य रूपकस्योपपादकः । इदमेव स्पष्टयति-नौरर्थ इति । नौरूपो व्यङग्योऽर्थों वाच्यस्य चारिधिसम्वन्धिरूपकस्यो पपादक इत्यर्थः । यथा वा- तथाभूतां दृष्ट्वा नृपसदसि पाञ्चलितनयां वने व्याधैः साधे सचिरमुषितं वल्कलधरैः । विराटस्यावासे स्थितमनुचितारम्भनिभृतं गुरुः खेदं खिन्ने मयि भजति नायापि कुरुषु । अन्न ध्वनिविकारेण काका मयि ने योग्यः खेदस्तादृशलैहेतुषु कुरुष योग्यः खेद' इति व्यज्यते । तेन व्यङ्ग्येन प्रश्नरूपवाक्यार्थस्य सिद्धेर्मध्यमकाव्यत्वम् । अन्यथा प्रश्नानुपपत्तेः । एतेन काकुसहकारेण प्रश्नरूपवाक्यार्थस्य मयि न योग्यः खेदः कुरुषु योग्यः खेद' इत्येतादृशार्थव्यञ्जकत्वादुत्तमकाव्यत्वं काव्यप्रकाशोकमपास्तम्। न च धीरोदात्तनायकवाक्यस्य विपर्ययावसाननैयत्येनाऽनुचितत्वप्रतीतिरिति वाच्यम् , गुरुत्वेन तत्कायें तत्प्रतीत्ययोगात् ॥ ६ ॥ अस्फुटव्यङ्ग्यमाह- अस्फुटं स्तनयोरत्र कोकसादृश्यवन्मतम् । कुङ्कुमक्तं स्तनद्वन्द्वं मानसं मम गाहते ॥ ६ ॥ अस्फुटमिति । अस्फुटत्वं विलम्वेन प्रतीयमानत्तम् । तदेव स्पष्टयति-स्तनयो- २०