पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/२०३

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


१५४ राकागमसहिते चन्द्रालाके = = == == = = रिति । अत्र कुरुकुमकमिति काव्ये कोकसादृश्यरूपं व्यङ्ग्यमस्फुटमित्यर्थः। यथा वा- रामचन्द्रवदनेन चन्द्रमा निर्जितः किसु कथासरोरुहाम् । रामपादकमलेन विद्मः, पलवस्य तुलनापि कीदृशी ॥ अन्न समुद्रोत्पन्नजेतुस्तडागोत्पन्नजये कियान श्रम इति चन्द्रपदेन सागरजवं व्यायमस्फुटम् ॥ ६ ॥ सन्दिग्धं व्यङ्ग्यमाह- सन्दिग्धं यदि सन्देहो दैघ्यांद्युत्पलयोरिव । सम्प्राप्ते नयने तस्याः श्रवणोतंसभूमिकाम् ॥ ७ ॥ सन्दिग्धमिति । दैयदि धोत्पलं चेति द्वन्द्वः । उत्पलपदेनत्पलसादृश्यम् । तेन श्रवणोत्तसभूमिकाँ गते इत्यनेन वैध्यत्पळसादृश्ययोः कस्य प्राधान्येन व्यङ्ग्यत्व मिति सन्देह इत्यर्थः ॥ ७ ॥ तुल्यप्राधान्यमिन्दुत्वमिव वाच्येन साम्यभृत् । कान्ते ! त्वदाननरुचा म्लानिमेति सरोरुहम् ॥ ८॥ तुल्येति । वाच्योऽर्थो व्यङ्गयेनार्थेन यत्र चमत्कारकारित्वामुल्यप्रधानः, ततुल्य प्रधानमित्यर्थः । कान्त इत्युदाहरणे इन्दुत्वं व्यङ्ग्यम् । तत्पङ्कजपराभवरूपाच्येन तुल्यम् ॥ ८ ॥ असुन्दरं यदि व्यङ्गय स्याद्वाच्याद्मनोहरम् । सरस्यामलदम्भोजे चक्रः कान्तां विलोकते ।। ९ ।। असुन्दरमिति । यत्र वाच्याद् व्यङ्ग्यमचमत्कारकारि, तदसुन्दरमित्यर्थः । उदाहरण ‘सरसीति । आमीलन्ति सङ्कुचन्त्यम्भोजानि यस्मिन्निति विग्रहः । अन्न भावी विरहो व्यङ्ग्यः , तदपेक्षया निरीक्षणमेव चमत्कारकारीति भावः ॥ ९ ॥ काक्काक्षिप्तव्यङ्ग्यमुदाहरणेनैव दर्शयति- काकुत्स्थं प्रणतोऽम्भोधिरद्य माद्यतु रावणः ।। काकुत्स्थमिति । अद्य माद्यतु रावण' इति कोक्का ‘महोऽग्ने गमिष्यतीति व्यज्यते । अद्य मदो गमिष्यतीति व्यङ्ग्य काक्वैवाक्षिप्तमिति भावः (१)। मध्यमकाव्यभेदानुपसहरति- इत्यष्टधा गुणीभूतव्यङ्गमङ्गीकृतं बुधैः ॥ १० ॥ इस्यष्टधेति । अत्रापि वस्त्वलङ्करिव्ययसङ्करसंसृष्टयादिभिरुत्तमकाव्य भेदा ३याः । तदुकम्- स गुणीभूतव्यज्यैः सालङ्कारैः सह प्रभेदैः स्वः । (१) वाक्यमिदं स-स्तके नास्ति ।