पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/१९२

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


सप्तमो मयुखः । अमु कनकवगो बालमप्राप्तवनम् । गुधवाक्यात्कथं मूढास्त्यजध्वमविशङ्किताः ॥ अत्र 'न गन्तव्यमिति वस्तु व्यज्यते । उभयचकिमूलो यथा- अतन्द्रचन्द्राभरणा समुद्दोपितमन्मथा। तारकावरला श्यामा सानन्दं न करोति कम् ॥ अन्न चन्द्रतरिकाश्यामापदानि परिवृत्त्यसहानि, अन्यानि परिवृत्तिसहानि । उभा भ्यामुपमा व्यङग्या । एवमेकपञ्चाशः भेदाः । सरसंसृष्ट्यादिभेदेन उभेदा ईयाः । यथा- क्षणप्राणका तेऽद्य ययाऽनुचितं बत !। उका देवर ! रुदती(१) सा वाक्यनुनीयताम् ॥ अनुनय उपभोगरूपत्वलक्ष्यः, उत विवक्षित एवोपभोगव्यञ्जक इति अविवक्षित वाच्यविवक्षितान्यपरवाच्ययोः सन्देहरूपः सङ्करः । व्यङ्गथयोदुःखापनयनोपभोगयो. स्वसंशयाधीनदुःखास्पदत्वात्(१) । अनुग्राह्यानुप्राहकतारूप एकव्यञ्जकानुप्रवेशरूपश्च सङ्कः संसृष्टिश्च यथा- स्निग्धश्यामलकान्तिलिप्तवियतो वेलद्वलाका घना वाताः शीकरिणः पयोदसुहृदामानन्दकेकाः कलाः । कामं सन्तु, इहे कठोरहृदयो रामोऽस्मि सर्व सहे वैदेही तु कथं भविष्यति ह! हा ! हो ! देवि ! धीरा भव ॥ अत्रलिप्तपर्दै सम्पर्क लक्षदतिशयं व्यञ्जयति, सुहृत्पदमुपकारित्वं च लक्षयत्तदति. शये प्रतिपादयतीति अत्यन्ततिरस्कृतवाच्ये । अनयोस्तु त्रिविधसङ्कराभावात् संसृष्टि संमात्रम् । विरहोद्दीपकत्वं व्यङ्ग्यम् । रामपदं च सकलदुःखभाजनत्वं लक्षयत् ‘तां विनी जीविष्यामीति व्यञ्जयदेव विप्रलम्भं व्यनकि । एवञ्च-राम' इति अर्थान्तरसङ्क्रमित वाच्याविवक्षितवाच्ययोः सङ्कः। एवमन्यदप्युदाहार्यम् । एतेषामेव विषयव्याप्त्यर्थमुदा हरणान्तरानि कथ्यते । पदगतार्थान्तरसङ्क्रमिताविवक्षितवाच्यध्वनिर्यथा- प्रियं च मृत्युं न लभे त्वदीदिसतं तदेव न स्यान्मम यस्वमिच्छसि । वियोगमेवेच्छ मनः ! प्रियेण मे तव प्रसादान्न भवत्वसौ मम ॥ अन्न ‘ममेतिपदं भाग्यरहिताया इत्यर्थे सङ्क्रमितम् । इदमेव वाक्यगतार्थान्तर- सङक्रमिताविवक्षितवाच्यध्वनेरुदाहरणम् । पदगतात्यन्ततिरस्कृताविवक्षितवाच्य इवनिर्यथा-- भुवि भ्रमित्वाऽनवलम्बमम्बरे विहर्तुमभ्यासपरम्परापरा ।। अहो ! महावंशममुं समाश्रिता सकौतुक नृत्यति कार्तिनर्तकी । अन्न भ्रमणादिपदं स्वार्थत्यागेन व्यापकत्वलञ्चकम् । इदमेव वाक्यगतात्यन्ततिर,