शार्ङ्गधरपद्धतौ प्रसन्नराघवस्थे पद्ये ( १६४, ३५२० ) समुपलभामहे । ते इमे- “अपि मुदमुपयान्तो वागविलासैः स्वकीयैः । | परभणितिषु तोष यान्ति सन्तः कियन्तः । निजघनमकरन्दस्यन्दपूर्णालवालः | कलससलिलसेकं नेहते किं रसालः ॥” ( १. १९ ) “विनैवाम्भौवाहं बहुलरुचिलिप्ताम्बरतलात् तडिल्लेखा हेम द्युतिविततिरम्या विलसति । विनैव स्वर्गङ्गा नभसि रभसोन्मुद्रश फरी- | परीवर्तेः साकै स्फुरति नवनीलोत्पलवनम् ॥” ( १. ३३ ) । | शाई धर इमां पद्धतिं त्रिषष्ट्यधिकत्रयोदशशतमिते (१३६३) ख्रिस्ताब्दे लिखित- वानित्यभियुक्ता मन्यन्ते ।। शिङ्गभूपालविरचितो वर्तते सार्णवसुधाकरनामा नाट्यशास्त्रविषयको ग्रन्थः । तत्र तृतीये विलासे भ्रंशं लक्षयित्वा ग्रन्थकृतमेवमुदाहरति-- यथा प्रसन्नराघवे-‘रावणः-कथय छ तावत् कर्णान्तनिवेशनीयगुणं कन्यारत्ने कार्मुकं च । इत्यादि ।। पुनरपि तत्रैवान्तलपामुदाहरति- यथा प्रसन्नराघवे-
- प्रत्यङ्कमङ्कुरितसरसावतारं नव्योल्लसत्कुसुमराजिविराजिबन्धम् ।
घमैंतरांशूमिवं वक्रतयाभिरम्यं नाट्यप्रबन्धमतिमझुलसंविधानम् ॥ अस्य शिङ्गभूपालस्य समयो वेङ्कटगिरिनृपतीनां चरित्राधारेण निर्धारितः त्रिंश- दधिकत्रयोदशशतकमतः (१३३० ) ख्रिस्ताब्दः ।। विश्वनाथः शार्ङ्गधरः शिङ्गभूपालश्चेति त्रयाणां समयालोचनेन निःसंशयमव- भासते यदस्माकं जयदेवश्चतुर्दशशतकमध्यादधः कथमपि गमयितुं नैव पार्यते । अतो - ऽधस्तनी सीमाऽस्य समयस्य चतुर्दशशतकमध्यम् । | अलमतिप्रसङ्गेन कुतूहलखिलीकरणव्यासङ्गेन । अयमत्राऽस्य संक्षेपः। मम्मट- भट्टरुय्यकौत्तरभावित्वं विश्वनाथशार्ङ्गधरशिङ्गभूपालानां पूर्ववर्तित्वं चास्य जयदेवस्य समालोच्य वयमेतावदेव निश्चेतुं पारयामो यदयं तयस्तेषां च मध्ये प्रादुर्बभूव । यदि तत्कालकवीनां प्रसिद्धिसमासादनार्थ मर्याब्दानां शतकाद्ध पर्याप्तं कल्प्येत तर्हि कथयितुं शक्यते यदयं क्वापि त्रयोदशशतके ( १२००-१३०० ) कमपि भारतीय प्रदेशं खावस्थानेनालञ्चकार । एतदधिकं तु वक्तुं साधनानामियतया नैव शक्नुमो वयम् । गीतगोविन्दकविर्जयदेवः ।। केचिदभियुक्ता वितता वाचोयुक्तिं प्रयुञ्जाना एवमभिदधति यदयमस्माकं पीयूष- वर्षों जयदेव एवं गीतगोविन्दं नाम परमाद्भुतं काव्यं प्रणिनाय । एतेनैतत्