पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मवलोक्य जयदेवः ‘विचित्रं तत्प्रयत्नश्चेद् विपरीतः फलेच्छया' इति तल्लक्षणमभि: हितवान् । नोकैवलं लक्षणान्येव संवदन्ति, अलङ्कारनिरूपणक्रमोऽपि प्रायो रुय्यकानु- सृतसरणिमेवानुकरोति ।।  न खलु नावगतं भवेदलङ्कारकादनविहाररसिकानां यदलङ्काराणां संख्या क्रमशो वर्द्धमाना वर्तमानमहिमानमुपागतः । भरतमुनिश्चतुर एवाऽलङ्काराननुमेने । तथोक्त- मनेन नाट्यशास्त्रे-

 "उपमा रूपकं चैव दीपकं यमक तथा ।
अलङ्कारास्तु विज्ञेयाश्चत्वारो नाटकाश्रयाः ॥” इति ( १७.४३ )

 शनैः शनैः समयक्रममनुसरन्ती सैकषष्टिमिताऽभूदलङ्कारसंख्या मम्मटभट्टस्य काव्यप्रकाशे । रुय्यकस्यालङ्कारसूत्रे पञ्चसप्ततिरभवत् संख्याऽलङ्काराणाम् । जयदेवस्य चन्द्रालोके सा शतप्राया। तदनन्तरप्रणीतेष्वपि ग्रन्थेषु तत्क्रमाभिवृद्धिः स्पष्टमेव द्रष्टु शक्यते । इत्थमेतत् सर्वं विचारयन्तो वयं जयदेवस्य मम्मटभट्टस्य रुय्यकाचार्यस्य च पदानुविधेयत्वं व्यक्तमेव पश्यामः । नैतदत्याहितं नाम किञ्चित् । ग्रन्थारम्भे स स्वयमेव प्रतिज्ञानीते स्म-

 “तं पूर्वाचार्यसूर्योक्तिज्योतिःस्तोमोद्गम स्तुमः ।
ये संश्रित्य प्रकाशन्ते मद्गुणत्रसरेणवः ॥” ( १.४ )

 यथा तथा वा भवतु, जयदेवस्यास्य न केवलं मम्मटभट्टादेव किन्तु रुय्यकादप्यु- तरभावित्वमवश्यमेवाभ्युपेयम् । रुय्यकस्य समयो द्वादशशतकस्य पूर्वार्द्धमित्युपरिष्टा- न्निवेदितम् । अतोऽयं जयदेव द्वादशशतकादूर्वं नैव गन्तुमर्हति । खिस्तद्वादश- शतकान्तोऽस्य उपरितनो समयसीमेति निर्विवादमासाद्यते ।।  संप्रत्यधस्तनसीमानमासादयितुं तावद् यतामहे । प्रसन्नराघवस्थं पद्यम्-

 "कदली कदली करभः करभः करिराजकरः करिराजकरः ।
. भुवनत्रितयेऽपि बिभर्ति तुलामिदमूरुयुगं न चमूरुद्दशः ॥ (१.३७ )

 इति विश्वनाथकविराजः साहित्यदर्पणस्य चतुर्थपरिच्छेदे अर्थान्तरसङ्क्रमित- वाच्योदाहरणत्वेनोपन्यस्तवान् । विश्वनाथस्य समयश्चतुर्दशशतकस्य पूर्वार्द्धम् ।। अयमस्फुटगुणीभूतव्यङ्गयोदाहरणरूपेणेदं पद्यं व्याहरति--

 "सन्धौ सर्वस्वहरणं विग्रहे प्राणनिग्रहः ।
अलावुद्दीननृपतौ न सन्धिर्न च विग्रहः ॥”

 अत्र सोऽलावुद्दीननामानं खिलजीवंशसमुद्भूतं महम्मदीयं महीपाल स्मरति ।। अयं नृपः पञ्चदशाधिकत्रयोदशशतकमिते वत्सरे मृत इति भारतीयेतिहासविद्वांसः । साहित्यदर्पणस्यैका प्रतिलिपिश्चत्वारिंशदधिकपञ्चदशशतमितं वैक्रम वत्सरं (१४४० वै० = १३८३ खि०) लेखनकालं दधाना जम्बूनगरस्थपुस्तकालये समुपलब्धा । अतो ऽनुमीयते चतुर्दशपञ्चदशशतकपूर्वार्द्धयोर्मध्ये ( १३५०-१४५० ) विश्वनाथकवि- राजो बभूवेति ।