पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ ६ ] प्रख्यापितं व्यक्तमेव भवति यच्चन्दालोककविगतगोविन्दकविना सर्वथैकात्मता मावहति । किन्तु नेदं मत विपश्चितो निश्चितिपदवीमारोपयितुं कथमपि पारयन्ति । यत् केनचिदेतयो रचनासु गुणरीत्यादिसाम्यमाचम्यते तत्र रसनाया रसविशेषतारतम्य- ग्रहणालस्यमेव हेतुः । एतदधिकृत्य तु केवलमिदमेव साञ्जलि विनिवेद्य विरम्यते यत्- साक्षाद् द्राक्षा मधुरा मधुराऽपि च सा सुधा सिद्धा ।। यद्यस्ति तारतम्यं रसयति तत् केवलं विबुधः ॥ इदमपि सुविदितमेव विदुषां यद् गोतगोविन्दकविर्जयदेवो लक्ष्मणसेन इत्यभिधस्य धराधिपस्य समये समलङ्करोदू गौडदेशम् । तस्य नृपस्य प्रासादद्वारि शिलापट्टोल्लिखि• तोऽयं श्लोकः समुपबृहयति तमेवार्थम् । यथा--- गोवर्द्धनचे शरण जयदेव उमापतिः ।। कविराजश्च रत्नानि समितौ लक्ष्मणस्य च ॥" . अयं जयदेवोऽपि वकीये गीतगोविन्दाख्ये काव्ये, स्मरत्यैतानारम्भ एव कवि- वरान् । तथाहि- वाचः पल्लवयत्युमापतिधरः सन्दर्भशुद्धिं गिरा जानते जयदेव एव शरणः इलाध्यो दुरूहद्रुतेः ।, शृङ्गारोत्तरसत्प्रमेयरचनैराचार्य गोवर्द्धन- स्पर्धी कोऽपि न विश्रुतः श्रुतिधरो धोयी कविक्ष्मीपतिः ॥” ( १.४) महाराजलक्ष्मणसैनो द्वादशशतकारम्भ एवासीदिति व्यक्तमेवैतिहासिकानाम् । कथमिवाऽयं पूर्ववत जयदेवोऽनन्तरवर्तिना जयदेवेनाभिन्नतां भजेदिति. स्वयं विचार- यन्तु विद्वांसः । नैतावदेव खलु तयोर्भेदसाधक साधनम् । तयोर्मातापितृनामनी अपि विसंवदतः । गीतगोविन्दकविः स्वयमेव कथयति-

    • श्रीभोजदेवप्रभवस्य रामा(धा)देवीसुतश्रीजयदेवकस्य ।

पाराशरादिप्रियवर्गकण्ठे श्रीगीतगोविन्दकवित्वमस्तु ॥ सुमित्रामातृकस्य महादेवतनयस्य जयदेवस्य रामा(धा)देवीसंभवेन भोजराज- . तनूजेन कीदृशोऽभेदस्य सम्भव इत्यगदितमेव व्यक्तमवभासते शेमुषीजुषाम् । पक्षधरो जयदेवः ।। कथमेकः प्रमादिवशद् भ्रान्तिमागतः सन्नन्यानपि तथैवोत्पथगामिनः करोतीत्येतस्य निदर्शनानि सन्त्येव बहूनि । गड्डलिकाप्रवाहवदभियुक्तानामपि भवति मतेः कदा- चिदभिसंचारः । नास्त्यत्र विस्मयविशेषः कश्चित् । किन्तु यदा विचारसंभ्रमौद्गम ऽपि भ्रम भ्रामयन् बहून् सुचिरं भ्राम्यति तदावश्यमेवायं. भवति विदुषां दृश्यरहस्यः। ईदृश एव कश्चिददम्रो बभूव कस्यचिद् भ्रमो येनानालोचितसकलकल्पेन तेन प्रकल्पि- तोऽभेदो जयदेवयोरेतयोः । सकृत् प्रवर्तितः प्रवादी विदुषा विदुषाऽनधिगतविशेष- जुषा वरदकरामशोप्यायित इव लब्धवान् विदग्धवाद इव संमतिसंमानम्।