पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/१८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

राकागमसहिते चन्द्रालोके- इयं कमलकुमलोपमकुचा स्मरस्मेरभा विभाविततहिन्निभा नयनकोणशोणप्रभा । कथं मयि मनः प्रसन्नमिह सा करोति हुर्त क एवं मम तद्वशीकृतिकृतानुपायो भवेत् ॥ अत्र अनुकूलकामिनीविषयत्वेन तेरनुत्कृष्टतया तद्विषयकचिन्तादिभावानामनु- त्कृष्टत्वमिति भावाभासः । भावशान्तियेथा- तस्या नखक्षतविलेपनगोपनाय । किंवा नमस्यसि खळेति वचो निशम्य । कुनै ति वाचमभिधाय समालिलिङ्ग तां मानिनीमथ तथापि च विस्मृतं तत् ॥ अन्न कोपशान्तिव्यङ्ग्या ।। विपक्षमान्तरनामनि स्फुटे मत्तः श्रुते कोपनयाऽवधीरितम् । मामैक्षताऽक्ष्णोर्खलितैः क्षणेन न व्याजनिद्रामुपवाञ्छतीति ।। अन्नोत्कण्ठारूपभावस्योदयो व्यङ्ग्यः । भावसन्धिः, स वैककालमेव तुल्यकक्षयो- रास्वदिः । शबलता च कालभेदेन निरन्तरतया पूर्धपूर्वोपमर्दैनास्वादः । यथा- सीतालिङ्गनसंरम्भः सैरुणुध्यन्यतो हि माम् । भार्गवागमनाद्वीरसत्सङ्गो में प्रियो मतः ॥ अत्रोत्कण्ठागर्चयोः सम्येन प्रतीतेः सन्धिः । यथा वा-- करः स्वजा सज्जतरस्तदीयः प्रियोन्मुखः सन् विश्राम भूयः ।। प्रियाननस्यार्धपथं ययौ च प्रत्याययौ चाऽतिचः कटाक्षः ॥ यथा वा--- अयोधि तदैर्यमनोभवाम्यां तामेव भैमीमवलम्ब्य भूमिम् । आह स्म यत्र स्मरचापमन्तश्छिन्नं भुवौ तज्जयभङ्गवातम् ॥ अत्र पूर्वाधे सन्धिः, उत्तरार्धे रतिरूपभावशान्तिः । अनयोरङ्गिता च प्रतीयते । एवमन्यदूह्यम् । शवलता यथा-- . नो भुका सा रहसि मिलिता नोचितं मे कुलीन- स्येदं कि सा मिलति न पुनः क्व श्रुतं क्वेडशी धीः । कोपेऽप्यस्य वदनकमसे कोमलं किन्नु वक्ष्य त्यस्मान् धीरा जनुचि सुकृती कोऽधरै पास्यतीति । अत्र 'नो भुक्कै ति पश्चात्तापः । ‘नोचितं मे इति मतिः । 'कि सा इत्यौत्सुक्यम् । छ श्रुतमिति वितर्कः । कोपेऽपीति स्मृतिः । किं वक्ष्यन्तीति शङ्का । 'कोऽधर'. मिति चिन्ता । एतेषां पूर्वपूर्वोपमर्दैन प्रतीयमाचा अवलता चमत्कारभूमिः । पदांश,