पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/१८६

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


सप्तमो मयुखः ! मध्ये प्रकृतेर्यथा-- अपाङ्गतः प्रियो याति यावद् द्वित्रिपदानि सः ।। तावडू उतः पाणिगलचीत्रीयन्धं तु कान्तया ॥ अत्र द्वारादिपदत्यागेन ‘पदानीरत्युक्तम् । तेन द्वारपर्यन्तगमनेऽप्यसहिष्णुता उत्कण्ठातिशयो व्यङ्ग्यः । धातोर्यथा-- रते गौरीकरद्वन्द्वपिनढे नयनद्वये ।। | जयति स्थगितं शम्भोस्तार्तीयीक विलोचनम् । अत्र जिधना स्थगितव्यापारसम्येनान्यनेत्रयोः कराभ्यां पिधानम् । अस्य । लोकोत्तरकर्मणेति तदेवोत्कृष्टमिति रत्युक व्यज्यते । अत एव जयतीत्युक्तं न शोभत इति । पवनो दक्षिण दिनु पथि ताम्राकुरास्तथा । बाणान् किरति चाऽमङ्गो मानिनीमानमा (१)गती ॥ । अत्र ‘किरतीति ति किरणस्य साध्यत्वम् , ‘गतेति सुपा निवृत्तेः सिद्धत्वम् । तेन किरणनिवृत्योः साध्यसाधनयोः पौवापर्यव्यतिक्रमरूपातिशयोक्त्या रसोत्कर्षों योल्यते । यथा वा- लिखन्नास्ते प्रियो भूमि सख्यश्चिरमुपोषिताः । माने मुञ्च सखीदानीमवस्था कठिना च ते ॥ अत्र लिखन्निति शतृप्रत्ययेन, अस्त' इति लटा, 'भूमि'मिति द्वितीयया च क्रमेणाऽबुद्धिपूर्वकत्वरूपमप्राधान्यम् , अवस्थानस्य प्रसादपर्यन्तत्व, कर्मणोऽलक्ष्यत्वं च बोध्यते । तेनानुरागातिशयो व्यङ्ग्यः ।। ग्राम्यास्मि नागरीवृतेरनभिज्ञापि तादृशी ।। रमणानां मानसानि नागराणां हराम्यहम् ॥ अत्र 'नागराणामिति षष्ठया रतिकलाभिज्ञतारूप उत्कर्षों व्यज्यते । पर परशुरामस्य लोकाः ! ऋणुत मे वचः ।। रमणीयः कुमारोऽयमासीइशरथात्मजः ॥ अत्र सीदिति लङाऽतीतकालविहितेन अचिरातदीयहिंसायाः सुकरत्वं ध्यञ्जयति । तेन भार्गवक्रोधातिशयो व्यज्यते । वचनस्य यथा- सत्कण्ठास्ताश्च सा प्रतिस्तथा ते च गुणग्रहाः ।। भणितानि च सर्वेषामवसानमथेडकम् ॥ अन्न उत्कण्ठादीनां नानाप्रकारकत्वेऽपि तत्कार्यस्य प्रेम्णः कदाचिदन्यथाभावा- sप्राप्तिरूपमेकजातीयत्व बहुवचनैकवचनाभ्यां व्यज्यते । पुरुषस्य यथा- ( १ ) मानमा, मानस्य मा मानं परिमाणमित्यर्थः ।