पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/१८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमो मयूखः । = = भेदेन द्वादशधा । द्वादशबिधा:पे पदवाक्यप्रवन्धगत इति पत्रिशत्प्रकारः । प्रबन्धश्च सङ्कस्थितनाना वाक्यसमुदायः । उभयशक्त्युत्यो वाक्यगत एक एव । एतेषां मेलनेन एकपञ्चाशदू भेदाः । तेषां परस्परं योजनं चतुध । 'अयं वाऽयैवेति संशयरूपमेकम् । परस्परमङ्गाङ्गिभावरूपं द्वितीयम् ! एकव्यञ्जकानुप्रवेशरूपं तृतीयम् । एतत्त्रितयरूपं सङ्करपदाच्यम् । उक्त प्रकारतया भिन्न प्रकारेण संयोगः संसृष्टिः । एकमेकपञ्चाशत भेदानामेकपञ्चाशता भेजनेन तावदुगुण्ने सहस्रद्वयमेकाधिका षट्शती च । संयोजनं च संसृष्टयादिचतुःप्रकारे रिति तावतां चतुर्गुणने दशसहरूाणि चतुरधिकानि चत्वारि अतानि भवन्ति । न चैकपञ्चाशद्भेदेष्वेकस्य पञ्चाशता योजनेऽपि स्वस्य स्वेन कथं योजनमिति वाच्यम् । व्यकिभेदमादाय रसस्य विजातीयेनापि सहुरादिसम्भवादिति काव्यप्रकाशादयः सर्वेऽव्यालङ्कारिकाः । क्रमेणोदाहरणानि । तत्र पदगतार्थान्तरसङक्रमिताऽविवक्षितवाच्यध्वनियथा- यस्य मित्राणि मित्राणि शत्रवः शत्रवस्तथा । अनुकम्प्योऽनुकम्प्यश्च स जातः स च जीवति ॥ अत्र द्वितीयमित्रादिपदानि आश्वस्तत्वनियन्त्रणीयत्वस्नेहपात्रत्वपराणि । हत. प्रतिज्ञत्वं व्यङ्ग्यम् । क्यगतोऽपि तादृशः, यथा-'त्वामस्मि वच्मीत्युक्तम् । पद- गतोऽत्यन्ततिरस्कृतवाच्यध्वनिथा-- दृश्यन्ते बहुधा लोके व्यवहाराः कुशीलिनाम् । व्यवसायास्तु धीराणां विमुह्यन्ति तथापि न ॥ अन्न 'विमुन्तीति विफलत्वे लाक्षणिकम् । धीराणां महत्त्वं व्यङ्ग्यम् । वाक्य. गतोऽपि ताहाः, यथा-उपकृतमित्युक्तम् । अलक्ष्यक्रमव्यङ्गयरसध्वनिर्यथा- लावण्यं तदसौ कान्तिस्तद्रूपं स वचःक्रमः । तदा सुधारूपदमभूदधुना तु विषोपमम् ॥ अत्र सर्वनाम्नामनुभवैकगोचरमर्थ प्रकाशयतां रसध्यञ्जकता। यथा वा- मानं धत्स्वेति वदर्ती(१) सर्ची भीताननाऽवदत् । नीचैः शंस, श्रोत्यतीति प्रियो मे हृदये स्थितः ॥ अन्न ‘भीताननेति पदं नीचैःशंसनस्य योग्यतां प्रकाशयद् रागातिशयव्यञ्चकम् । एवं भावादयोऽप्युदाहर्तव्याः । तत्र राभासो यथा- कस्मै पुण्यवतेऽधरं वितरसे(१), के भाग्यवन्तं समा- । लिङ्गस्थालि ! इगन्तवक्रिमपदैः सङ्केतनं कस्य च । अन्तध्ययसि यं मुहुमुहुरहो ! जातः सुलग्ने स कः । को वा सूक्तिधाप्रवाहलहरोमध्ये निमग्नश्च ते ॥ क्षेत्र व्यापाराणां बहुविषयत्वप्रतोते रसाभासो व्यङ्ग्यः । भाषाभासो यथा--