पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/१७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पष्ठी मयूखः । संमोहो गर्वः । रुपायाभोवज्ञानजनिता बानिविषादः । इष्टावासी कालज्ञेपा- ऽसहिष्णुता औत्सुक्यम् । श्रमादिना नयनोन्नी निद्रा । अधिबिशेषज्वरश्चा- ऽपस्मारः। स्वप्नगत विषयानुभवः सुतम् : पिगमजन्यननःप्रसाद विवोधः । निन्दादावमिनिवेशोऽमर्षः । लज्जादिना पांद्याकारगरनमवहित्था । अपमानादि ऋतश्चित्तक्षोभ उग्रता । नीतिशास्त्रेजान मतिः । वःतादिकृतो ज्वरो व्याधिः । कामादिकृतश्चित्तविभ्रम उन्मादः । शस्त्रादिकृतः प्रागवियोगो मरणम् । इदं तु मरण ५ व्यभिचारिभवः, रसविच्छेदहेतुत्वेन तस्त्रावर्णनीयत्वात् । किन्तु मरणेच्चैव । विशुदादिकृतं भयं त्रासः । सन्देहजन्यो विकारो वितर्कः । १६-१८ ॥ इदान रसाभासभावाभासाना- सर्वसाधारणप्रेमप्रश्रयादिस्वरूपया । अनौचित्या रसाभासा भावाभासाश्च कीर्तिताः ॥ १९ ॥ सर्वेति । एकस्या नायिकाया अनेकनायकविषयावलोकनादिवर्णनयाऽनेकविषय- प्रेमकथमनौचिती, तर रसोऽपि रसाभासा भवति । एवमेकस्यानेकदेवतादिविषयक- रत्यादिवर्णनया रतिकथने भावाभास इत्यर्थः । प्रश्रयो नम्रता नतिरिति यावत् । या- सम्भावितास्त्वया के तरुण !न नयनालेन संवता । स्मितसधयाऽऽहितगौरवमधुना वचनं श्रवःसधा केषाम् ॥ अयं रसाभासः । भावाभासो यथा-- अन्यैः समोऽसि वरदो देवैरपि जगत्पते ।। तथापि त्वामहं वन्दे कालकूटस्य धारणात् ॥ एवं गुर्वादिविषयाण्युद्यानि ॥ १९ ॥ भावस्य शान्तिरुदयः सन्धिः शबळता तथा । काव्यस्य काञ्चनस्येव कुङ्कुम कान्तिसम्पदे ॥ २० ॥ भावस्येति । भावस्य व्यभिचारिभावादेः शान्तिनशः, उदय आधिक्यम्, भाव- यस्य क्रमेण कथनं सन्धिः, बहूनां कथनं शबलता । एतान्यपि काव्यस्य कान्ति: सम्पदे, कान्तिः सरस्त्वम्, तत्सम्पदे भवन्तीत्यर्थः । शोभाजनकानोल्याशयः । अत्र ‘पर्यायप्रवृतौ सन्धिरपर्यायप्रवृत्तौ शबलतेति केचित् । उदाहरणान्युकानि ॥ २० ॥ रीतीराह- चतुष्टयमासन यथेष्टमादिभिः ।। समासः स्यात् पदैर्न स्यात् समासः सर्वथाऽपि च ।। २१ ॥ पाञ्चाळिकी च लाटीया गौडीया च यथारसम् ।। वैदर्भी च यथासङ्ख्यं चतस्रो रीतयः सताः ॥ २२ ॥