पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/१६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११४ राकागमसहिते चन्द्रालोके-- भावात्तदलङ्कारत्वबुद्धयनपायाच्चेति हृदयम् ॥ १२१ ॥ परेषां मतमुपन्यस्यति लोकद्वयेन- शब्दे पदार्थे वाक्या वाक्यार्थस्तबके तथा । एते भवन्ति विन्यासा स्वभावातिशयात्मकाः ॥ १२२ ॥ कस्याप्यतिशयस्योक्तिरित्यन्वर्थविचारणात् ।। प्रायेणामी अलङ्कारा भिन्ना नातिशयोक्तितः ॥ १२३ ॥ शब्दे इति । शब्देऽनुप्रासयमकादीनां, पार्थे उपमादीनां, वाक्याथै दृष्टान्तादीना, वाक्यार्थस्तवके निदर्शनादीनां विन्यासातिशयात्मकानां सर्वेषामतिशयोक्त्यलङ्कार- रूपत्वमेव भेद उकः । अतिशयोकिरिति योगस्य सर्वेषु सम्भवात् । अतः सर्वेषामतिः शयोक्त्यलङ्कारान्तर्भाव इत्याशयः ॥ १२२-१२३ । । स्वमतमाह- अलङ्कारप्रकारेषु दधानेष्वपि साम्यताम् ।। वलक्षण्यं मृतिप्यक्ति प्रतिभाति मुखेष्विव ॥ १२४ ॥ अलङ्कारैति । अलिश्योक्तित्वेनालारत्वेन वा समेष्वपि उपमादिप्रातिस्विक सुखेष्विव प्रत्यक्षेणोपलम्यमानं दैलक्षण्यमस्तीत्यर्थः ॥ १२४ ॥ अलङ्कारेषु तथ्येषु यद्यनास्था मनीषिणाम् । तदर्वाचन भेदेषु नाम्नां नाऽऽस्नाय इष्यताम् ।। १२६॥ अलङ्कारेष्विति । रसिकैरालङ्कारिकैः स्वानुमवैवेद्य एतेषां भेद इत्याशयः । अनुभवैकवेद्यभेदेवलङ्कारेषु यद्यनादरः, तदा उपमारूपकादिनाम्नामनादरोऽस्तु । विजातीयबुद्धिकृतविषयभेदस्तु ब्रह्मणापि दुर्निवार इत्यर्थः । अनुमवैकसिद्धोऽलङ्कारभेद महादेवः सत्रप्रमुखमस्त्रविद्येकचतुरः। | सुमित्रा तद्भक्तिप्रणिहितमतिर्यस्य पितरौ । चतुर्थः सैकोऽयं सुकविजयदेवेन रचिते चिरं चन्दालोके सुखयतु मयूखः सुमनसः ॥ १२६ ॥ इति श्रीपीयूषवर्षपण्डितजयदेवकृते चन्द्रालोकालङ्कारेऽलङ्कार- | निरूपणाख्यः पञ्चमो मयखः ।। विश्वेश्वरापराख्येन गागाभट्टेन धीमता । चन्द्रालोकस्य विवृतिर्मयूखे पञ्चमे कृता । इति मीमांसकगागाभट्टविरचितचन्द्रालाकटीकायाराकागमाख्यायाँ पञ्चमोमयूखः। इत्यायिः ।