पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/१६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चभो मयुखः । मुदिते हृष्टे’त्यन्यपतिव्रतावृत्तान्तप्रतीतः समासोक्यलङ्कारोऽपि ! सोऽपि ३ उदात्ता लङ्कारपरिष्कारकः । एवमुदाहरणान्तरराशि स्वाभियानि। अन्न सर्वत्र तदलङ्कारबुद्धय- नपायान्नालङ्कारान्तरत्वमित्याशयः ॥ १९९ । । सर्वेषां च प्रतिद्वन्द्वप्रतिच्छन्दभिदाभृताम् । उपाधिः क्वचिदुद्भिन्नः स्यादन्यत्रापि सम्भवात् ॥ १२० ॥ सर्वंयामिति । एवं सति सर्वेषानन्येपांमप्यलङ्काराणां न्यनाधिकरूपतया विसदृशानामलङ्कारान्तरत्वापत्तिः । यथा-रूपक्रस्य पृथक्कथितसादृश्यरूपस्याधिक्यात् इवादिपदाभावे लुप्तोपमाया न्यूनत्वात् । अतस्तत्र रूपकोपमातो भेदाभावादुक स्थलेऽपि न भेद इति तात्पयर्थः । अक्षरार्थस्तु-(१)प्रतिद्वन्द्वितया विरोधितया प्रति च्छन्द आधिक्यं तेन भेदभाजामन्येषामलङ्काराणामुद्भिन्नः कथित उपाधिः प्रकारो- ऽन्यत्रापि सम्भवन् योजनीयः स्यात्तस्याप्यलारान्तरत्वं स्यादिति ॥ १२० ॥ माला परम्परा चैषां भूयसामनुकूलके ।। मनुष्ये भवतः क्वापि ह्यलङ्काराङ्गतां गते ।। १२१ ॥ मालेति। भूयसामलङ्कारोणासुकानामेपासुपमादीनां माला मालाकारेण विन्यासः परम्परा रशनाचारेण विन्यासश्च अनुकूलके, स्वाथे कः, चमत्कारजनके भवतः । हेतु- गर्भविशेषणम्-यतोऽलङ्काराङ्गतां गते अलारोपकारकत्व प्राप्ते । मनुष्य इवेति दृष्टान्त- वशात्काव्ये इत्यध्याहर्तव्यम् । एवञ्च- मनुष्ये यथालङ्काराणा माला परम्परा चानुकुले शोभाजनके भवतः, तथा काव्येऽप्यलङ्काराणां माला परम्परा च चमत्कारजनके भवतः । मालोपमारशनोपमामालारूपशादीनामपि नालङ्कारान्तरत्वम् । यथा- अनवरतकनकवितरणजलसम्भृतकतरङ्गितार्थिततेः । भणितिरिव मतिम तिरिव चेष्टा चेष्टेव कीर्तिरतिविमला ॥ इयं च साधारणधर्मेण रशनोपमा । | मतिरिव मूर्तिर्मधुरा मूर्तिरिव समा प्रभावयुता । तस्य सभेव जयश्रीः शक्या जेतुं नृपस्य न परेषाम् ॥ इयं च धर्मभेदेन । एवम् , किसलयकरैतानां करकमलः कामिनां मनो जयति । नलिनीनां कमलमुख्र्मुखेन्दुभिर्योषितां मदनः ॥ इति रशनारूपकम् ।। अलौकिकमहालोकप्रकाशितजगत्त्रय ! ।। स्तूयते देव ! सāशमुकारत्नै न कैर्भवान् ॥ इति मालारूपकम् । तत्र नलिङ्कारान्तरत्वमित्याशयः । अलङ्कारान्तरत्वबुद्धय- (१) प्रतिच्छन्देन वादेन (१)मर्यादयेति यावत्.भेद भाजा०'इति ख-पुस्तके । १५