पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/१६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

राकागमसहिते चन्द्रालोके-

  • ~*~*~*~-~-~~
  • ~*

~

  • ~*~*~*~*~*~*~*~*~******

शब्दार्थनिष्ठोपकारजननद्वारा रसोपकारकत्वम् । रसस्तु व्यङ्ग्यतया सर्व प्रधानीभूत इति तस्यान्योपकारकत्वासम्भवान्नालङ्कारत्वं सम्भवतीत्याहुः(१)। ध्वनि कारस्तु- अलङ्काराणां रसोपकारकत्वे शब्दार्थनिष्ठचमत्कारजननमेव तद्द्वारम् । मानाभावात् , रूपकादौ सतोऽपि तस्यार्थिकतया अप्रयोजकत्वाच्च । किन्तु यथाकथञ्चिद्वसोपकारकत्व. मान्नं साक्षात्परम्परासाधारणम् । तेन रसादीनामपि रसोपकारकत्वे भवत्येवालारत्वम् । यथाहु:- प्रधानेऽन्यत्र वाक्याथै यत्राङ्गं तु रसादयः । काव्ये तस्मिन्नलङ्कारो रसादिरिति मे मतिः ॥ अत एतेषां युमलङ्कारत्वमित्याह । अन्ये-तु 'अन्न रसाच्चपकारकत्वमान्नेणा- लङ्कारशब्दप्रयोगो भाक' इत्याहुः ॥ ११०-११८ ॥ संसृष्टयादीनामलङ्कारान्तरत्वं निरास्यति- शुद्धिरेकप्रधानत्वं तथा संसृष्टिसङ्करौ । एतेषामेव विन्यासानालङ्कारान्तराण्यमी ।। ११९ ॥ शुद्धिरिति । शुद्धो यन्त्रैक एवालङ्कार एकप्रधानत्वम्, सैव शुद्धिरित्युच्यते । इयो- रडारयोः परस्परानुपपादश्योरुभयप्राधान्यं संसृष्टिः। अलङ्कारयोरङ्काङ्गिमावः सङ्कः । अङ्गाङ्गिभावाभावेन प्रधानयोरलङ्कारयोः सन्देहो द्वितीयः सङ्करः । अलङ्कारद्वयस्यैक. पदप्रतिपाद्यत्वं तृतीयः सङ्करः । तदुकम्- अविश्रान्तिजुषामात्मन्याङ्गित्वं तु सङ्कः । एकस्य च ग्रहे न्यायदोषाभावादनिश्चयः ॥ व्यवस्थितिरलडकृत्योः पदक्यानुप्रविष्टयोः । उत्तरार्धयोः सोऽपि सङ्क' इत्यनुषः । तन्नतेषामेव प्रसिद्धानामलङ्काराणां विज्ञानान्न संसृष्ट्यादीनामलङ्कारान्तरत्वमित्यर्थः । यथा- यद्गारवटाऽइकुमित्रवदिन्दूपलतुन्दिलापया । | मुमुचे न पतिव्रतौचिती प्रतिचन्द्रोदयमभ्रगङ्गया ॥ अन्न हि कुहिमानामत्युञ्चत्वचन्द्रकान्तनिर्मितत्वप्रतिपादनद्वारा सम्पसमृद्धियोग- रूप उदात्तालङ्कारोऽतिशयोक्तिश्चेति द्वावपि प्राधान्येन प्रतीयेते । तयोरुपपादकः पदार्थ हेतुकाव्यलिङ्गालङ्कारो ‘दगारेश्त्यादिविशेषणस्य अन्नगङ्गयेति विशेष्यस्य च साभिप्रायत्वरूपपरिकरपरिकड्कुिरालङ्कारौ च । पतिव्रतेति समुद्रवृद्धशनुमानानुमाना: लङ्कारः। सर्वेश्चोदात्तालङ्कारस्य चारुती प्रतीयते । तेन परस्परोपपादकत्वम् । ‘आर्ता (१) अन्न केचित्-‘रसस्य व्यङ्ग्यतया सर्वप्रधानीभूतस्यान्योपकारकत्वा, सम्भवानालङ्कारत्वं सम्भवतीत्याहुः” इति ख-पुस्तके पाः ।