पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/१५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चमी मयूखः । १०५ सृष्टाऽतिविश्वा विधिनैव तावत्ततोऽपि नीतोपरि यौवनेन । वैदग्ध्यमध्याप्य मनोभुवयमवापिता वाक्पथपारमेव ॥-१०६॥ अवज्ञालङ्कारमाह-- अवज्ञा वर्धते वस्तु गुणदोषाऽक्षम यदि । म्लायन्ति यदि पद्मानि का हानिरमृतद्युतेः ।। १०७ ॥ अवझेति । अन्यगुणदोषाभ्यामन्यगुणदोपयोरनारोपणीयत्वकथनमवशालङ्कारः । ‘म्लीयन्तीति पद्मदोषेण चन्द्रे दोषालाभकथनात् । यथा वा- विधिलिखितनियोगयोगतोऽयं कुमुदसुदे समुदेति शीतरश्मिः । अपि यदि नलिनी स्वदेवदोषादपि मलिनीभवति क्रियेत किं कैः ॥ अत्र चन्द्र कुमुदसन्तोषेण न गुणो न वा कमलिनीमाळिन्येन दोष इति ॥ १०७॥ प्रश्नोत्तरालङ्कुरिमाह- प्रश्नोत्तरं क्रमेणोक्तौ स्यूतमुत्तरमुत्तरम् । यत्रासौ वेतसी पान्थ ! तत्रेयं सुतरा सरित् ।। १०८ ॥ प्रश्नेति । उक्त प्रश्नोत्तरयोः उत्तरमुत्तर प्रश्नरूपमुत्तररू' वा यत्र स्यूतं संलग्नम् आक्षेपगम्यमिति यावत् , तन्त्र प्रश्नोत्तरालङ्कार इत्यर्थः । तेन प्रवनेम उसरकल्पने उत्तरेण वा प्रश्नकल्पने प्रश्नोत्तरालङ्कारः । उदाहरति-यत्रेति । अत्र पान्थस्य 'कुत्र सरित्तरणमार्ग इत्याक्षेपलभ्यः प्रश्नः । यत्रासौ वेतसोति कामयमानाया उत्तरम् । ‘वेतसकुब्जे स्वच्छन्द्यमिति भावः । अन्नैव कामयमानस्य काकूक्त्या प्रश्नेऽङ्गीकार रूपमुत्तरं कल्प्यम् । नेदमनुमानान्तर्गतम्, साधननिदेशाभावात् । नापि काव्य लिङ्गम् , उत्तरस्य प्रश्न प्रत्यजनकत्वात् ॥ १०८ ॥ पिहितालङ्कारमाह- पिहितं परवृत्तान्त ज्ञातुरन्यत्र चेष्टितम् ।। प्रिये गुहागते प्रातः कान्ता तल्पमकल्पयेत् ॥ १०९ ॥ पिहितमिति । परवृत्तान्तज्ञानपूर्व तदनुरूपक्रियाकथनं पिहितालङ्कारः । 'रात्रा- वन्यत्र श्रान्तोऽसीति हृदयम् ॥ १०९ ॥ व्याजोक्त्यलङ्कारमाह- व्याजोक्तिः शङ्कमानस्थ छद्मना वस्तुगोपनम् । सखि ! पश्य गृहारामकेसरैरस्मि धूसरा ॥ ११० ॥ व्याजोकिरिति । अन्यथा शङ्कमाने प्रत्यन्यथाकथनद्वारा वस्दगोपने व्याजोकि