पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/१५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०४ राकागमसहिते चन्द्रालोके- - तद्गुण इति । स्वगुणत्यागेन अन्यगुणसम्बन्धकथने तहुणालङ्कारः । नासा. मौक्तिकेऽधरगुणसम्बन्धेन परागत्ववर्णनात् । यथा वा ।। यदतिविमलनीलवेक्मरश्मिभ्रमरितमाः शुचिसोधवस्ववक्षिः। अलभत शमनस्वसः शिशुत्वं दिवसकरातले चला लुठल्ती ५-१०२॥ पूर्वरूपतामाह- पुनः स्वगुणसम्प्राप्तिर्विज्ञेया पूर्वरूपता । हरकण्ठांशुलिप्तोऽपि शेषस्त्वयशसा सितः ॥ १०३ ॥ पुनरिति । अन्यगुणसम्बन्धकथनपूर्वकं पुनः स्वगुणसम्बन्धकथनं पूर्वरूपालङ्कारः । हरकण्ठाविति पुनः स्वगुणकथनात् । यथा वा- भूशक्रस्य यशसि विक्रमभरेणोपार्जितानि क्रमा- | देतस्य स्तुमहे महेभदशनस्पर्धीनि कैरक्षरैः । लिम्पद्भिः कृतक कृतोऽपि रजतं राज्ञां यशःपारदै- रस्य स्वर्णगिरिः प्रतापदहनैः स्वर्णं पुनर्निर्मितः ॥॥१०३॥ पूर्वरूपता प्रकारान्तरेणाह- यद्वस्तुनोऽन्यथारूपं तथा स्यात्पूर्वरूपता । दीपे निवापिते ह्यासीत् काञ्चीरत्नैरहमंहः ॥ १०४ ॥ यदिति । वस्तुनाशकथनपूर्वं वस्त्वन्तरेण तद्वस्तुकार्यकथनं पूर्वरूपतालङ्कारः । पुनरित्यध्याहारः । अन्यथा नष्टं रूपं पुनरूतथा स्यादित्यन्वयः । दीप इति लक्ष्यम् । निर्वाचित इति नामाभिधानात् ॥ १०४ ॥ अतदुणालङ्कारमाह-- सङ्गताऽन्यगुणानङ्गीकारमाहुरतद्गुणम् । विशन्नपि रवेमध्यं शीत एव सदा शशी ॥ १०५ ॥ सङ्गतेति । सम्बन्धेऽपि सम्वन्धिगुणाऽग्रहणकथनैऽतद्णालङ्कारः । शशिना सूर्य- गुणाऽग्रहणकथनात् । यथा वा-. गाङ्गमम्बु सितमम्बु यामुन कज्जलाभमुभयत्र मज्जतः ।। राजहंस ! तव सैव शुभ्रता चोयते न च न चाऽपचीयते ॥ आसिद्धयलङ्कारमाह-- प्रसिद्धिः स्वगुणोत्कर्षोंऽनुगुणः परसन्निधेः । कर्णोत्पलानि दधते कटाक्षैरपि नीलताम् ॥ १०६ ।। प्रागिति । परसन्निधानात् स्वगुणोत्कर्षकथने प्राकृस्ट्रियलङ्कारः । अवतैसीक्व- नीलोत्पलेषु कटाक्षसन्निधानेन गुणोत्कर्षकथनात् । यथा वा-