पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/१५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०६ राकागमसहिते चन्द्रालोके- रलङ्कारः । गृहारामेत्यादिकथनेन सुरतगोपनम् । क्वचितु- व्याजोकिरन्यहेतुक्त्या यदाकारस्य गोपनम् । कस्य वा न भवेद् रोषः प्रियायाः,सत्रणेऽधरे । | सङ्ग पद्ममाघ्रासीवरितापि मयाऽधुना ॥ इति पाठः । इदं चान्येन खण्डिताधराया नायिकायाः समीपमागच्छन्तं सरो। प्रिये प्रति सुरतगोपनार्थं सखीवाक्यम् । 'अयं छेकापडूत्यन्तर्गतः इति केचित् । 'अपतिवचनस्यान्यथानयनम् , आकरिगोपने व्याजोकिरिति भेद' इत्यन्ये । अन्यन्न सु- 'गूढोकिरन्योद्देश्यं चेद् यदन्यं प्रति कथ्यते । वृषाऽपेहि परक्षेत्रादायाति क्षेत्ररक्षकः ॥२॥ ११० ॥ वक्रोक्त्यङ्कारमाह- वक्रोक्तिः श्लेषकाकुभ्यां वाच्यार्थान्तरकल्पनम् । मुञ्च मानं दिने प्राप्तं, मन्द ! नन्दी हरान्तिके ॥ १११॥ वक्रोक्तिरिति । शब्दार्थश्लेषोभ्यां काकूक्त्या वा वाच्यार्थापेक्षयार्थान्तरकल्पने वक्रोक्त्यलरिः । मुञ्च मानमिति लक्ष्यम् । ‘नन्दिनं बलीवर्दै मा मुच्चेत्यर्थकल्पनेन 'मन्द मूर्ख ! नन्दी बलीव महादेवसमीपेऽस्ति, अन्न नास्तीत्युत्तरं शब्दपलेषेण । अर्थश्लेषेण यथा-- अगुल्या कः कपाटे घटयति कुटिलो माधवः किं वसन्तो नो चक्री किं कुलालो न हि धरणिधरः किं द्विजिहूः फणीन्द्रः । नाह घोराहिमर्दी खगपतिरसि किं नो हरिः किं कपीन्द्र इत्येवं सत्यभामाप्रतिवचनयुतः पातु वश्चक्रपाणिः ॥ काकूको यथा- अधीतिबोधाचरणप्रचारणैर्दशाश्चतस्रः प्रणयन्नुपाधिभिः । चतुर्दशत्वं कृतवान् कुतः स्वयं न वेद्मि विद्या चतुर्दशस्वयम् ॥॥१११॥ स्वभावोक्त्यलङ्कारमाह- स्वभावोक्तिः स्वभावस्य स्वजात्यादिषु वर्णनम् । कुरजैरुत्तरङ्गालैः स्तब्धकर्णेरुदीक्ष्यते ॥ ११२ ॥ स्वभावोकिरिति । जात्यनुरूपस्वभावकथने स्वभावोत्यलङ्कारः।। कुरकैरिति लक्ष्यम् । स्तब्धकर्णैरिति जातिस्वभावः । यथा वा- कुञ्चिताभ्यामथ पक्षतिभ्यां नभोविभागोत्तरसाऽवतीर्य । चिरेशाततधूतपक्षः पपात भूमावृपभमि हंसः ॥-॥ ११२ ॥