पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/१४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

राकागमसहिते चन्द्रालोके- - -

  • -*-*

--*- विनाऽनिष्टं च तत्सिद्धिर्यदर्थ कृत उद्यमः । या लताऽन्विष्यते सैव लग्ना सम्प्रति पादयोः ॥ अनिष्टं स्वस्य परस्य च । इदं तृतीयविषमप्रतिपक्षम् ॥ ८१ ॥ विचित्रालङ्कारमाह- विचित्रं चेत्प्रयत्नः स्थाद्विपरीतफलप्रदः । नमन्ति सन्तस्त्रैलोक्यादपि लब्धं समुन्नतिम् ।। ८२ ॥ विचित्रमिति । (१) विपरीतफलहेतुप्रयत्नवर्णने विचित्रालङ्कारः । अत्र फलम् इष्टरूपं बोध्यम् । तेन न तृतीयविषमान्तर्गतिः । यथा नमनस्योन्नतिहेतुत्वम् ॥८२॥ अधिकालङ्कारमाह- अधिकं बोध्यमाधारादाधेयाधिक्यवर्णनम् ।। यया व्यासं जगत्तस्यां वाचि मान्ति न ते गुणाः ॥ ८३ ।। अधिकमिति । महान्तमाधारमुपक्रम्य तइपेक्षया आधेयाधिक्यवर्णनेऽधिका- ऽलाः । वारूपाधारापेक्षया गुणरूपाधेयाधिक्यकथनात् । आधिक्यं परिमाणेन सत्यया च । यथा वा- अस्तेि दामोदरीयामियमुदरदरी याऽवलम्ब्य त्रिलोकी समाप्तुं शकिमन्ति प्रथिमभरवशादत्र नैतद्यशसि। तामेत पूरयित्वा निरगुरिव मधुधवैसिनः पुण्डरीक. च्छमापन्नानि तानि द्विपदशनसनाभीनि नाभीपथेन ॥ यथा वा- एतस्पुरःपठदपश्रमबन्दिवृन्द, वाग्डम्बरैरनवकाशतरेऽम्बरेऽस्मिन् । उत्पत्तमस्ति पदमेव न तत्पदान- मौऽपि नार्थपुनरुक्तिषु पातुकानाम् ॥ अन्यत्र सु-पृथ्वाधेयदि यदाधाराधिक्यं तदपि तन्मतम् । यथा- किंमधिकमस्य वदामो महिमान वारिधेईरित्र । अज्ञात एव शेते कुक्षौ भुवनानि निक्षिप्य ॥ अल्पालङ्कारोऽप्यन्यत्र-‘अल्प तु सूक्ष्मादाधाराद् यदाधेयस्य सूक्ष्मता । यथा-- यत्पथावधिरणुः परमः सी योगिधीरपि न पश्यति यस्मात् ।। बलिया निबमनःपरमाणौ हीदरीशयहरीतमेनम् ॥-॥ ८३ ॥ (१) इस आरभ्य 'विषमान्तर्गतिः' इत्यन्तै नास्ति ख-पुस्तके ।