पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/१४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चमी मयूखः । असङ्गत्यलङ्कार इति शेषः । उभयसपि यथा- हृदि विदर्भभुवः प्रहरन् शरै रतिपतिनिंषधाधिपतेः कृते ।। कृततदन्तरगस्वदृढव्यथः फलदनीतिरमूर्छदलं खल -॥ ७९ ॥ विषमालारमाह- विषम यद्यनौचित्यादनेकान्वयकल्पनम् । क्वाऽतितीव्रविषाः सपः क्वास चन्दन भूरुहः ।। ८० ।। विषममिति । अननुरूपयोः सम्वन्धकथनं विषमम् । यथा भुजगचन्दनयोः । यथो वा- कथं विधातर्मथि पाणिपङ्कजात्तव प्रियाश्त्यदुत्वशिल्पिनः । ‘वियोक्ष्यसे वल्लभयेति निर्गत लिपिर्ललाटेतपनिष्टुराऽक्षरा ॥ अन्यत्र तु-‘विरूपकार्यस्योत्पत्तिरपरं विषमं मतम् । यथा- आश्चर्यमस्य ककुभामवधीनवाप- दाजानुगानुजयुगादितः प्रतापः । व्यापत्सदाशयविसरितसप्ततन्तु जन्मा चतुर्दश जगन्ति यशःपटश्च ॥

  • अनिष्टस्याऽप्यवाप्तिश्च तदिष्टार्थसमुद्यमात् । इष्टप्राप्त्यर्थमनिष्परिहारार्थ वा

प्रवृत्तस्यानिष्ट प्राप्तिरित्यर्थः । यथा- अयं क्षाराम्भोधेः पतिरिति गवां पालक इति श्रितोऽस्माभिः क्षीरोपनयनधिया नन्दतनयः । अनेन प्रत्यूहो व्यरचि स तथा, येन जननी- स्तनादप्यस्माकं पुनरपि पयो दुर्लभमभूत् ॥ अनिष्टपरिहारार्थमुद्यतस्याऽनिष्टप्राप्तिरूपं यथा- रविरश्मितसदेहः सरसि गतो गजपतिस्तरसा । पढ़ें तथा निमग्नो वंशोऽपि यथा न दृश्यते तस्य ॥-॥ ४० ॥ समालङ्कारमाह- सममौचित्यतोऽनेकवस्तुसम्बन्धवर्णनम् ।। अनुरूपं कृतं सझ हारेण कुचमण्डलम् ॥ ८१ ॥ सममिति । उचितसम्बन्धवस्तुद्वयकथने समालङ्कारः। उचितत्वं च परस्परशोमा- जनकत्वम् । हारकुचयोः शोभासम्बन्धस्योचितत्वात् । तेन विषमप्रतिपक्ष सममिति सिद्धम् । इदञ्च अननुरूपसम्बन्धरूपविषमप्रतिपक्षम् । ‘सारूप्यमपि कार्यस्य कारणेन समं विदुः । इदं द्वितीयविषमप्रतिपक्षम् । यथा- सितांशुवर्धयति स्म तदुणैर्महासिबेम्नः सहकृत्वरी बहुम् ।। दिगङ्गनाङ्गावणं रणझणे यशःपटें तब्रटचारी तुरी ॥