राकागमसहिते चन्द्रालोके- विभावना । यथा- उदयति स्म तदद्भुतमलिभिर्धरणिभृद्भुवि तत्र विमृश्य यत् । अनुमितोऽपि चे बाष्पनिरीक्षणाद् व्यभिचार न तापकरोनलः ॥ 'क्वायत्कारणजन्मापि दृष्टा काचिद्विभावना । यथा- जाता लता हि शैले जात लतायां न जायते शैलः । सम्प्रति तद्विपरीतं कनकलतायां गिरिद्वयं जातम् ॥ काव्यप्रकाशे त्वेतेषामतिशयोक्तिमध्येऽन्तर्भावः कृतः ॥ ७७ ॥ विशेषोत्यलङ्कारमाह- विशेषोक्तिरनुत्पत्तिः कार्यस्य सति कारणे । नमन्तमपि घीमन्तं न लङ्घयति कश्चन ॥ ७८ ॥ विशेषोक्तिरिति । कारणे सति कार्यानुत्पत्तिक्कथनं विशेषाक्त्यलङ्कारः। नमन्त- मिति लक्ष्यम् । नमनरूपकारणे सत्यपि लङ्घनरूपकायभावः । इयम् उक्तहेतुरनुकहेत. रचिन्त्यहेतुश्चेति त्रिधा । अनुहेतुर्मूले चोदाहृता । उक्तहेतुर्यथा-- न श्वेतत चरतु वा भुवनेषु राज. सस्य च प्रियतमा कथमस्य कीर्तिः । चिन्नं तु यदू विशदिमाऽद्वयमादिशन्ती । क्षीरं च नाम्बु च मिथः पृथगातनोति ॥ अचिन्त्यहेतुर्यथा- निपततापि न मन्दरभूभृता त्वमुदधौ शशलान्छन ! चूर्णितः । अपि सुनेर्जठराविधि जीर्णतां बत ! गतोऽसि न पीतपयोनिधेः ॥ यत्त दपणे--विभावनाविशेषोक्त्योः शुद्धोदाहरण मृग्यामित्युक्तम्, तचिन्त्यम् ७८ असङ्गत्यलङ्कारमाह- आख्याते भिन्नदेशत्वे कार्यहेत्वोरसङ्गतिः ।। त्वद्भक्तानां नमय भङ्गमेति भवक्लमः ॥ ७९ ॥ आख्यात इति । कार्यकारणयोर्भिन्नदेशत्वकथनमसङ्कत्यलङ्कारः । नमनाऽधिष्ठा• नस्य भौचित्यात्संसारश्रमनिष्ठभङ्गस्य व्यधिकरणत्वात् । यथा वा- गर्जति वारिदपटले वर्षति नयनारविन्दुमबलायाः । भुजवछिमूलसेको विरहलतापल्लचे सूते ॥ अन्यत्र - ‘अन्यत्र करणीयस्य ततोऽन्यत्र कृतिश्च सा । अन्यत्कर्तुं प्रवृत्तस्य तद्विरुद्धकृतिस्तथा ॥ .
पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/१४१
दिखावट