पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/१३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८३ राकागमसहिते चन्द्रालोके-

  • -*-*-*

-* -*-*-*-* तया भिन्नार्थयोः पदयोमिथोमेलनादेकार्थप्रतिपादकत्वं पदवलेषः। यथा-पृथुकार्तस्वर पात्रमिति । अन्न महत्सुवर्णपात्रव६ पृथुकाथै य तस्वरस्तस्य स्थानम् (इत्यर्थः)। विभिन्नलिझार्थप्रतिपादकयोव्यकरणवशेनैकरूप्यं लिङ्गलेषः । यथा-'रामयो' रिति । भिन्नार्थयोः प्राकृतसंस्कृतयोरैकरूप्यं भाषाश्लेषः । यथा- महदेसरसंधम्मे तमवसमासंगमागमाहरणे । हरबहुसरणं तं चित्तमोहमवसरउमे सहसा ॥ 'मम देहि रस धमें तमोवामाशां गमागमार नः, हरवधु ! शरणं त्वं चित्तमोहोऽपसरतु मे सहसा' इति प्राकृतार्थः । ‘महं ददाति सा महदा, उत्सवदात्रि! सुरसन्धं सुरान् सन्दधाति वशीकरोतीति सुरवशीकारिणं समासङ्ग सम्यगन्यासम् अव रक्ष (हे आगमाहरणे !) बहुसरणं बहुविस्तारिणं वित्तमोहम् अवसरे समये उमे ! पार्वति ! हर दूरीकुरु' इति संस्कृतार्थः । भिन्नयोविभक्त्योर्नाम्नो धातोश्चैकरूप्ये विभक्तिश्लेषः । यथा-'हुरादिपदे सुपूतिङन्तत्वम् । भिन्नधात्वोः प्रत्ययवशेनैकरूप्यं प्रकृतिश्लेषः । यथा-वह प्रापणे विच परिभाषणे इति धात्वो वक्ष्यतीति । मित्रयोरपि तृजभाप्रप्रत्यययोरकरूप्यं प्रत्ययश्लेषः । यथा-'नन्दिते'ति । नदिधातो- नेन्दिनो बलीवर्दस्य भावो.नन्दिता, आनन्दाश्रय इति च । दुधेकार्थप्रतिपादकयो- व्यकरणवशेनैकरूप्यं वचनश्लेषः । यथा-'कुरुतामिति परस्मैपदप्रथमपुरुषद्विवचने आत्मनेपदवचने च । अयमष्टविधः सभङ्गलेषः । पर्यायशब्दानुपस्थाप्यार्थद्वयोपस्था- पकाऽभिन्नशब्दत्वमभङ्गशब्दश्लेषत्वम् । यथा- क्षोणीभृतामतुलकर्कशविग्रहाणा- मुद्दामदर्पहरिकुञ्जरको दिमाजाम् । . पक्षच्छिदामयमुदप्रबलो विधाय | त्रासब्धिमग्नमखिलं जगदुज्जहार ॥ इत्यादौ तात्पर्य ग्रहेणोभयोपस्थाकत्वात् । पर्यायशब्दोपस्थाप्यार्थद्वयोपस्थापक शब्दवत्वमर्थश्लेषः । यथा- स्त्रोकेनोन्नतिमायाति स्तोकेनयात्यधोगतिम् ।। अहो ! सुसहशी वृत्तिस्तुलाकोटः खलस्य च ॥ अन्न 'अल्पेनोध्धै समायतीति पाठेऽप्यर्थद्वयप्रतिभानस्य तुल्यत्वात् । न च इलेषस्योपमानज्ञानज्ञाप्यतयोपमाया एव तत्रालङ्कारतया न श्लेषस्यालङ्कारत्वमिति वाच्यम् । श्लेषज्ञानात्पूर्व सादृश्यज्ञानाभावेन श्लेषस्योपमाज्ञानज्ञाप्यत्वाभावात् । प्रथमोपस्थितिविषयतया १ॐषस्यैव तत्रोपमाज्ञापकतयाऽलङ्कारत्वात् । एवम्-यत्र श्लेषज्ञानज्ञाप्यो विरोधालङ्कारोऽलङ्कारान्तरे वा तत्रापि श्लेष एवलिङ्कारो, मुख्य त्वात् । एतस्य शब्दान्वयव्यतिरेकानुविधायिज्ञानविषयत्वाच्छब्दालारत्व'मिति