पञ्चमी मयूखः । E
काव्यप्रकाशः। 'अर्थालङ्कारत्वमिति जीणः । न चैतस्य मध्यपाठान्नालारत्व- मिति वाच्यम् । गुणान्तर्गतश्लेषस्य विसन्धित्वाभावरूपत्वात् । कलालेति । कीलालालपदेन जलरुधिरप्रवाहरूपार्थद्वयपरत्वात् , वाहिनीपतिपदस्य सेनापतिनदी. पतिरूपार्थद्वयपरत्वाक्ष्यत्वम् । अयं चाभङ्गश्लेषः । पर्यायशब्दानुपस्थाप्यार्थद्वयप्रति पादकशब्दवत्वात् । यथा वा- अत्याजि लब्धविजयप्रसस्त्वया किं । | विज्ञायते रुचिपदं न महीमहेन्द्रः । प्रत्यर्थिदानवशताहितचेष्टयासौ जीमूतवाहनधियं न करोति कस्य ॥ ६३ ॥ सभङ्गशब्दश्लेषमाह- भङ्गश्लेषः पदस्तोमस्यैव चेत्पृथगर्थता । अजरामरता कस्य नायोध्येव पुरी प्रिया ॥ ६४ ॥ भङ्गश्लेष इति । अर्थ६ यप्रतिपादकपदद्वयस्य मेलनादेकार्थप्रतिपादकत्वे सभङ्ग- इलेष इत्यर्थः । अजरेति लक्ष्यम् । अन्न अजरामरतेति द्वन्द्वोत्तरभावप्रत्ययस्योभयत्र सम्बन्धादजरमरतेत्यस्य ‘अजश्च रामश्चेति द्वन्द्वगर्मषष्ठीतत्पुरुषेण अजरामविषयक प्रतिमतीत्यर्थस्यापि प्रतिपादनात् ॥ ६४ ॥ अर्थश्लेषमाह-- अर्थश्लेषोऽर्थमात्रस्य यद्यनेकार्थ आश्रयः । कुटिळाः श्यामळा दोघः कटाक्षाः कुन्तलाश्च ते ॥ ६६ ॥ अर्थश्लेष इति । अर्थमात्रस्य न तु शब्दविशिष्टस्य । तेन पर्यायशब्दोपस्था- प्यत्वमुकम् । अनेकार्थ उपमानोपमेयरूपः यदि आश्रयत्वेन कथ्यते तत्रेत्यर्थः । तेन पर्यायशब्दोपस्थाप्यार्थद्वयोपस्थापकपदवश्वमर्थश्लेषः । कुटिलादिपदोपस्थाप्यार्थस्य वक्रादिपदैरप्युपस्थितेर्लक्ष्यत्वम् ॥ ६६ ॥ अप्रस्तुतप्रशंसामाह- अप्रस्तुतप्रशंसा स्यात्सा यत्र प्रस्तुतानुगा । कार्यकारणसामान्यविशेषादेरसौ मता ॥ १६ ॥ कमकैः कमळावासैः किं किं नासादि सुन्दरम् । अप्यम्बुधेः परं पारं भयान्ति व्यवसायिनः ॥ ६७ ॥ अप्रस्तुतेति । चमत्कारकारककार्योपस्थापककारणकथने तटिकाकारणोपस्थापक