पञ्चमो मयूखः । विनोकिमाह- विनोक्तिचेद्विना किञ्चित्प्रस्तुतं हनिमुच्यते । विद्या हृद्यापि साऽवद्या विना विनयसम्पदा ॥ ६१ ।। विनेाकिरिति । यदभावोक्त्या वर्णनीयसदसत्त्वापादनं, तादृशोकौ विनोक्स्य लङ्कार इत्यर्थः । उदाहरणे विद्येति । वर्णनीयविद्याया विनयभावेऽसत्त्वप्रतिपादनात् । यथा वा-- तव रूपमिदं तया विना विफलं पुष्पमित्राऽवकेशिनः । इयमृद्धधना वृथाऽवनी स्ववनी संप्रवदपिकाऽपि का ॥ अन्न वृथाशब्दकाकृक्तिभ्यामसर्वोक्तिः । ‘विना खलैर्विभात्येषा राजेन्द्र ! भवतः सभा' इति सत्त्वप्रतिपादनम् ॥ ६१ ॥ समासोयलङ्कारमाह- समासोक्तिः पारस्फूर्तिः प्रस्तुतेऽप्रस्तुतस्य चेत् । अयमैन्द्रीमुखं पश्य रक्तश्चुम्बाति चन्द्रमाः ।। ६२ ॥ समासोक्तिरिति । प्रस्तुते श्लिष्टैरलिटेवा पदार्थैर्वण्र्यमाने चमत्काराधयिका- इप्रस्तुतार्थप्रत्ययः समासोक्तिः । समासः सङ्क्षेपस्तेनोकिरित्यक्षरार्थः । अयमिति लक्ष्यम् । अत्र मुखशब्दः प्रारम्भवदनयोः, रकशब्दश्चाऽरुणकामुकयोः, चुम्बतिशब्द- चुम्बनसम्बन्धयोः श्लिष्ट इति, ऐन्द्रीशब्दुप्रतिपादितेन्द्रसम्बन्धिस्रोप्रतीतेः पुंल्लिङ्गचन्द्रमः. शब्दप्रतिपादितपुमन्तरप्रतीतेश्च परनायिकासक्तपुरुषान्तरवृत्तान्तः प्रतीयत इति इले घेणोदाहरणम् । यथा वा- वरुणरमणमाशामासादयन्तममुं रुची | निचयसिचयशशिभ्रंशक्रमेण निरं शुकम् । तुहिनमहसं पश्यन्तीव प्रसादमिषादसौ निजमुखमितः स्मेर धत्तै हरेर्महिषी हरित् ॥ अत्र महतोऽन्यत्रीनिषेवणे, वस्त्रादेराच्छिद्य ग्रहणेन विपद्ग्रस्तत्वदर्शने चान्यत्रीण हास्यमित्यादिप्रतीतेः ॥ ६२ ।। खण्डश्लेषमाह- खण्ड श्लेषः पदानां चैकैकं पृथगर्थता । • उच्छलभूरिकीळालः शुशुभे वाहिनीपतिः ॥ १३॥ खण्डश्लेष इति । श्लेषो द्विधा शब्दश्लेषोऽर्थश्लेषश्च । विजातीयोच्चारणयोग्य त्वेन भिन्नयोः शब्दयोरेकोच्चारणविषयत्वं शब्दश्लेषः । सोऽष्टधा, वर्णपदलिङ्गभाषा: विभकिप्रकृतिप्रत्ययवचनभेदात् । वर्णभेदेन विरूपयोः पदयोरादेशादिवशेनैकरूप्ये वर्ण. इलेषः । यथा-चन्द्रादृष्टवाचकविधुविधिपदयोः 'विधाविति सप्तम्यन्तम् । न्यूनाधिक
पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/१३०
दिखावट