पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/१२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चमो मयूखः । अर्थपत्तिरिति । यन्नैकस्य सिद्धार्थान्तरमत्सिध्यतीति वर्यते, तत्राथपत्य. लङ्कारः । चन्द्रे जिते तज्जितपानां जयोऽथसिद्ध इति । यथा वा- अयि ! ममैष चकोर शिशुमुनेत्रुजति सिन्धुपवस्य न शिष्यताम् ।। अशिनुमब्धिमधीतवतोऽस्य वा शशिकरः पिबतः कति शीकरः ॥ यथा वा- यशः पदाङ्गुष्ठनखौ मुखं च बिभर्ति पूर्णेन्दुचतुष्टयं या ।। कलाचतुःषष्टिरुपैतु वास तस्यां कथं भुवि नाम नाऽस्याम् ॥-॥३७॥ काव्यलिङ्कालङ्कारमाइ- स्यात्कायलिङ्गं वागर्यो यत्र हेतुसमर्थकः ।। जितोऽसि मन्द ! कन्दप ! मच्चित्तेऽस्ति त्रिलोचनः ॥३८॥ | स्यादिति । यत्र वाच्य एव वाक्यर्थिः पदार्थो वा प्रस्तुतवाक्याथे हेतुभूतस्तत्र काव्यलिङ्गालङ्कारः । चित्ते त्रिलोचनसवरूपवाक्यार्थस्य कन्दर्पदाहकतृतीयलोचनत्वा- भिप्रायगर्भतया कन्दर्पजयरूपवाक्यार्थे हेतुत्वात् । #यथा वा-- | मन्येऽमुना कर्णलतामयेन पाशद्वयेन च्छिद्रेतरेण । एकाकिपाशं वरुणं विजिग्येऽनङ्गीकृतायासतती रतीशः ॥ अत्र पाशद्वयेनेति पदार्थों वरुणजयरूपवाक्याथे हेतु*(१)। यथा वा- भ्रश्चित्रलेखा व तिलोत्तमाऽस्या नासा च रम्भा च यदुरुसृष्टिः । दृष्टा ततः पूर्यतीयमेकाऽनेकाप्सरःप्रेक्षणकौतुकानि ॥-॥३८॥ पारकरालङ्कारमाह- अलङ्कारः परिकरः साभिप्राये विशेषणे । सुधांशुकलितोतंसस्ताप हरतु वः शिवः ॥ ३९ ॥ अलङ्कार इति । सुधेति विशेषणस्य शैत्यप्रतीतिद्वारा तापनिवारणरूपवाक्यार्थों पयोगित्वम् । यथा वा- मनसि सन्तमिव प्रियमीक्षितुं नयनयोः स्पृहयाऽन्तरुपेतयोः । ग्रहणशकिरभूदिदमीययोरपि न संमुखवास्तुनि वस्तुनि ॥ अत्रान्तर्गतत्वविशेषणस्य चक्षुःसंयोगाभावद्वारा प्रकृतवाक्यार्थोपयोगित्वम् । काव्यलिङ्गपरिकरयोः सोभिप्रायपदार्थोक्तिरूपतया साम्येऽव्ययमेव भेदो, यत्काव्य लिङ्गे पदार्थों वाक्या वो साक्षाद्वाक्यार्थोपयोगी, परिकरे तु प्रस्तुतवाक्यापयो. व्यर्थान्तरप्रतिपादनद्वारा विशेषणं प्रकृतवाक्यार्थोपयोगीति । अन्न केचित्-‘इदं नालङ्कारान्तरम्, किन्तुनिष्प्रयोजनविशेषणत्वरूपापुष्टत्वदोषाभाव एवेत्याहुः । अन्ये तु-

  • अपुष्टस्य श्लेषादौ दोषत्वाभावात्तत्र साभिप्रायविशेषणत्वस्यालङ्कारत्व'मित्याहुः ॥३९॥

(१) चिह्नाङ्कितं नास्ति ख-पुस्तके ।